सीता नाम महा पुण्या नदीनां प्रवरा नदी। सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ।। ४२.
शीतान्ताशिखराद्भ्रष्टा सुकुञ्जे वरपर्वते। निपपात महाभागा तस्मादपि सुमञ्जसम् ।। ४२.
तस्मान्माल्यवतं शैलं भावयन्ती वरापगा। वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम्। मणिपर्वतान्महाशैलं ऋषभं नैककन्दरम् ।। ४२.
एवं शैलसहस्राणि दारयन्ती महानदी। पतिताऽथ महाशैले जठरे सिद्धसेविते ।। ४२.
तस्मादपि महाशैलं देवकूटं तरङ्गिणी। तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ।। ४२.
सैवं स्थलीसहस्राणि शैलराजशतानि च। वनानि च विचित्राणि सरांसि विविधानि च ।। ४२.
स्रावयन्ती महाभागा विस्फारेष्ववलीकदा। नदी सहस्रानुगता प्रवृत्ता च महानदी ।। ४२.
भद्राश्वं सुमहाद्वीपं प्लावयन्ती वरापगा। प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ।। ४२.
दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने। चित्रैः प्रपातैर्विधैर्नैकविस्फालितोदका ।। ४२.
तद्घन्धमादनवनं नन्दनं देवनन्दनम्। प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ।। ४२.
नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता। प्रविशत्युत्तरसरो मानसं देवमानसम् ।। ४२.
मानसाच्छैलराजानं रम्यं त्रिशिखरं गता। त्रिकूटाच्छैलशिखरात् कलिङ्गशिखरं गता ।। ४२.
कलिङ्गशिखराद्भ्रष्टा रुचके निपपात सा। रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ।। ४२.
ताम्राभशिखरार्द्भ्रष्टा गता श्वेतोदरं गिरिम् । तस्मात्सुमूलं शैलेन्द्रं वसुधारञ्च पर्वतम् ।। ४२.
हेमकूटं गता तस्माद्देवश्रृङ्गे ततो गता। तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ।। ४२.
पिशाचकाच्छैलवरात् पञ्चकूटङ्गता पुनः। पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ।। ४२.
तस्य कुक्षिषु विभ्रान्ता नैककन्दरसानुषु। हिमवत्युत्तमनदी निपपाताचलोत्तमे ।। ४२.
सैवं शैलसहस्राणि दारयन्ती महानदी। स्थलीशतान्यनेकानि प्लावयन्त्याशुगाणिनी ।। ४२.
वनानाञ्च सहस्राणि कन्दराणां शतानि च । स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ।। ४२.
रम्या योजनविस्तीर्णा शैलकुक्षिषु संवृता। याधृता देवदेवेन शङ्करेण महात्मना ।। ४२.
पावनी द्विजशार्दूल घोराणामपि पाप्मनाम्। शङ्करस्याङ्कसंस्पर्शान्महादेवस्य धीमतः। द्विगुणं पवित्रसलिला सर्वलोके महानदी ।। ४२.
अनुशैलं समन्ताच्च निर्गता बहुभिर्मुखैः। अथोऽन्येनाभिधानेन ख्याता नद्यः सहस्रशः ।। ४२.
तस्माद्धिमवतो गङ्गा गता सा तु महानदी। एवं गङ्गेति नाम्नादिप्रकाशा सिद्धसेविता ।। ४२.
धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदी। रुद्रसाद्ध्यानिलादित्यैर्जुष्टतोया यशस्वती ।। ४२.
महापादं प्रवक्ष्यामि मेरोरपि हि पश्चिमम्। नानारत्नाकारं पुण्यं पुण्यकृद्भिर्निषेवितम् ।। ४२.
विपुलं शैलराजानं विपुलोदरकन्दरम् । नितम्बकुञ्ज कटकैर्विमलैर्म्मण्डितोदरम् ।। ४२.
अपि या त्र्यम्बकस्यैषा त्रिदशैः सेवितोदका। वायुवेगा गताभोगा लतेव भ्रामिता पुनः ।। ४२.
मेरुकूटतटाद्भ्रष्टा प्रहतैः स्वादितोदका। विस्तीर्य्यमाणसलिला निर्म्मलांशुकसन्निभा ।। ४२.
तस्य कूटेऽम्बरनदी सिद्धचारणसेविता । प्रदक्षिणमथावृत्य पतिता सा तु गामिनी ।। ४२.
देवभ्राजं महाभ्राजं सवैभ्राजं महावनम्। प्लावयन्ती महाभागा नानापुष्पफलोदका ।। ४२.