महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ॥ ८.
तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ ८.
देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥ ८.
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥ ८.
यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्। आहारं स परीप्सन् वै शब्देनानुचचार ह ॥ ८.
आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ। पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥ ८.
असृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ८.
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ८.
तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्। सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥ ८.
रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः। पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥ ८.
जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे। ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा। गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ८.
ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम्। पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ८.
तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ। अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते। तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ॥ ८.
पैशाचेव विवाहेन सुदत्या बुद्धवाहनः। अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ ८.
इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका । ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ॥ ८.
इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी। जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ ८.
सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा। अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ॥ ८.
ब्रह्मधनं प्रसूता सा धनानाच्चैव कन्यका। एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम्। तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ॥ ८.
हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा। विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ ८.
सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश। सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ ८.
हेतिपुत्रस्तथा लङ्कुर्लङ्कोर्द्वावेव चात्मजौ। माल्यवांश्च सुमाली च प्रहेतितनयान् श्रृणु। प्रहेतितनयः श्रीमान् पुलोमा नाम विश्रुतः ॥ ८.
वधपुत्रो निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः। वातपुत्रो विरागस्तु आपपुत्रस्तु जम्बुकः ॥ ८.
व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः। इत्येते वै परिक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ ८.
कीर्तिता यातुधानास्तु ब्रह्मधानान् निबोधत। यज्ञः पिता धुनिः क्षेमो ब्रह्मा पापोऽथ यज्ञहा ॥ ८.
स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश। स्वसारो ब्रह्मराक्षस्यस्तेषाञ्चेमाः सुदारुणाः ॥ ८.
रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी। एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ ८.
श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः। इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ ८.
चकमेऽप्सरसं यक्ष पञ्चस्थूलां क्रतुस्थलीम्। तां लिप्सुश्चिन्तमानश्च नन्दनं स चचार ह ॥ ८.
वैभ्राजं सुरभिञ्चैव तथा चैत्ररथञ्च यत्। दृष्टवान् नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ ८.
नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन्। दूषितः स्वेन रूपेण कर्म्मणा तेन दूषितः ॥ ८.