शुद्धैर्मनः शिलाजालैर्भास्वरैररुणप्रभैः । नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ।। ४१.
पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः। नदीकन्दरशैलाद्यैरनेकैश्चित्रसानुभिः ।। ४१.
इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः। किन्नरोरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ।। ४१.
गन्धर्वैरप्सरोभिश्च सेविता नैक विस्तराः। पुण्यकृद्भिः समाकीर्णा केसराकृतयो नगाः ।। ४१.
गिरिजालन्तु तन्मेरोः सिद्धलोकमिति स्मृतम्। चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ।। ४१.
नात्युग्रकर्मसिद्धानां प्रतिमा मध्यमाः स्मृताः। स हि स्वर्ग इति ख्यातः क्रमस्त्वेष प्रकीर्तितः ।। ४१.
चतुर्महाद्वीपवती सेयमुर्वी प्रकीर्तिता ४१.
नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः। प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह।। ४१.
चत्वारो नैकवर्णाद्या महाद्वीपाः परिश्रुताः। भद्राश्च भरताश्चैव केतुमालाश्च पश्चिमाः। उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।। ४१.
सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला। पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ।। ४१.
तदेषा सान्तरद्वीपा सशैलवनकानना। पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ।। ४१.
सब्रह्मसदनं लोकं सदेवासुरमानुषम्। त्रिलोकमिति विख्यातं यत्सत्त्वैर्व्यवहार्यते ।। ४१.
चन्द्रादित्यावतप्तं यत्तज्जगत् परिगीयते। गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ।। ४१.
तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते। एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ।। ४१.
सरोवरेभ्यः पुण्योदा देव नद्यो विनिर्गताः। महौघतोया नद्यश्च ताः श्रृणुध्वं यथाक्रमम् ।। ४२.
आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते। आधारः सर्वभूतानां देवानाममृताकरः ।। ४२.
तस्मात् प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी। सप्तमेनानिलपथा प्रयाता विमलोदका ।। ४२.
सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता। ताराकोजिसहस्राणां नभसश्च समायता ।। ४२.
माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना। क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ।। ४२.
नैकैर्विमानसङ्घातैः प्रक्रामद्भिर्नभस्तलम्। सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ।। ४२.
वायुना प्रेर्यमाणा च अनेकाभोगगामिनी। परिवर्त्तत्यहरहर्यथा सूर्यस्तथैव सा ।। ४२.
चत्वार्यशीतिः प्रतता योजनानां समन्ततः। वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ।। ४२.
विभिद्यमाना सलिलैस्तैजसेनानिलेन च। मेरोरुत्तरकूटेषु पतिताथ चतुर्ष्वपि ।। ४२.
मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता। विकीर्यमाण सलिला चतुर्द्धासंसृतोदका ।। ४२.
षष्टियोजनसाहस्रं निरालम्बनमम्बरम्। निपपात महाभाग मेरोस्तस्य चतुर्द्दिशम् ।। ४२.
सा चतुर्ष्वभितश्चैव महापादेषु शोभना। पुण्या मन्दरपूर्वेण पतिता हि महानदी ।। ४२.
पूर्वेणांशेन देवानां सर्वसिद्धगणालयम्। सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ।। ४२.
प्लावयन्ती सशैलेन्द्रं मन्दरञ्चारुकन्दरम्। वप्रप्रतापशमनैरनेकैः स्फाटिकोदकैः ।। ४२.
तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम्। प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ।। ४२.
अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे। शैले सिद्धगणावासे निपपात सुगामिनी ।। ४२.