तथैव चोत्तरे देशे चारुधौ देवपर्वते। अनेकश्रृङ्गकलिते सिद्धसाधु निषेविते ।। ४१.
यक्षाणां किन्नराणाञ्च गन्धर्वाणां सहस्रशः। नागानां राक्षसानाञ्च दैत्यानाञ्च महाबले ।। ४१.
कूटे तु मध्यमे तस्य सिद्धसङ्घ निषेविते। रम्ये देवर्षिचरिते रत्नधातुविभूषिते ।। ४१.
पझोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा। तथा कुमुदखण्डैश्च विकचैरुपशोभिते ।। ४१.
विहङ्गसङ्घसंघुष्टं नानासत्वनिषेवितम्। हंसकारण्डवाकीर्णं मत्तषट्पदसेवितम् ।। ४१.
नानासत्वगणाकीर्णं विहङ्गैरुपशोभितम्। चारुतीर्थसुसम्बाधं त्रिंशद्योजनमण्डलम् ।। ४१.
सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम्। तत्रानन्दजलन्नाम महापुण्यजलं सरः ।। ४१.
तत्र नागपति श्चण्ड श्चण्डो नाम दुरासदः। शतशीर्षा महाभागो विष्णुचक्राङ्कचिह्नितः। इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ।। ४१.
पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोवरैः। सुवर्णपर्वतैर्नैकैस्तथा रजतपर्वतैः ।। ४१.
नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः। हरितालपर्वतैर्नैकैस्तथा हिङ्गुलकाञ्चनैः ।। ४१.
शुद्धैर्मनः शिलाजालैर्भास्वरैररुणप्रभैः । नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ।। ४१.
पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः। नदीकन्दरशैलाद्यैरनेकैश्चित्रसानुभिः ।। ४१.
इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः। किन्नरोरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ।। ४१.
गन्धर्वैरप्सरोभिश्च सेविता नैक विस्तराः। पुण्यकृद्भिः समाकीर्णा केसराकृतयो नगाः ।। ४१.
गिरिजालन्तु तन्मेरोः सिद्धलोकमिति स्मृतम्। चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ।। ४१.
नात्युग्रकर्मसिद्धानां प्रतिमा मध्यमाः स्मृताः। स हि स्वर्ग इति ख्यातः क्रमस्त्वेष प्रकीर्तितः ।। ४१.
चतुर्महाद्वीपवती सेयमुर्वी प्रकीर्तिता ४१.
नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः। प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह।। ४१.
चत्वारो नैकवर्णाद्या महाद्वीपाः परिश्रुताः। भद्राश्च भरताश्चैव केतुमालाश्च पश्चिमाः। उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।। ४१.
सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला। पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ।। ४१.
तदेषा सान्तरद्वीपा सशैलवनकानना। पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ।। ४१.
सब्रह्मसदनं लोकं सदेवासुरमानुषम्। त्रिलोकमिति विख्यातं यत्सत्त्वैर्व्यवहार्यते ।। ४१.
चन्द्रादित्यावतप्तं यत्तज्जगत् परिगीयते। गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ।। ४१.
तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते। एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ।। ४१.
सरोवरेभ्यः पुण्योदा देव नद्यो विनिर्गताः। महौघतोया नद्यश्च ताः श्रृणुध्वं यथाक्रमम् ।। ४२.
आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते। आधारः सर्वभूतानां देवानाममृताकरः ।। ४२.
तस्मात् प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी। सप्तमेनानिलपथा प्रयाता विमलोदका ।। ४२.
सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता। ताराकोजिसहस्राणां नभसश्च समायता ।। ४२.
माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना। क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ।। ४२.
नैकैर्विमानसङ्घातैः प्रक्रामद्भिर्नभस्तलम्। सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ।। ४२.