तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम्। अर्धनारीनरं रुपं धृतवान् यत्र शंकरः ।। ४१.
तथा शरवणं नाम यत्र जातः षडाननः । यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ।। ४१.
ध्वजापताकिनञ्चैव किङ्किणीजालमालिनम्। यत्र सिंहरथं युक्तं कार्तिकेयस्य धीमतः ।। ४१.
चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे। देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ।। ४१.
यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः। सेनापत्ये च दैत्यारिर्द्वादशार्कप्रतापवान् ।। ४१.
भूतसङ्घावकीर्णानि एतान्यन्यानि च द्विजाः। तत्र तत्र कुमारस्य स्थानान्यायतनानि च ।। ४१.
तथा पाण्डुशिला नाम ह्याक्रीडा क्रौञ्चघातिनः। नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ।। ४१.
तस्य पूर्वे तटे रम्ये सिद्धावासमुदाहृतम्। कलापग्राममित्येवं नाम्ना ख्यातं मनीषिभिः ।। ४१.
मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च। विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ।। ४१.
अन्येषाञ्चोग्रतपसामृषीणां भावितात्मनाम्। हिमवत्याश्रमाणाञ्च सहस्राणि शतानि च ।। ४१.
नैकसिध्दगणावासं स्थानायतनमण्डितम्। यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम् ।। ४१.
नानारत्नाकरापूर्णं नानासत्त्वनिषेवितम्। नानानदीसहस्राणां सम्भवं वरपर्वतम् ।। ४१.
पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत्। कीर्त्त्यमानमशेषेण विशेषं श्रृणुत द्विजाः ।। ४१.
विस्तीर्णे मध्यमे कूटे हेमधा तुविबूषिते। दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम्। यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम् ।। ४१.
तत्र साक्षान्महादेवः पीताम्बरधरो हरिः। वरदः सेव्यते सिर्द्धैर्लोककर्त्ता सनातनः ।। ४१.
तस्यैवाब्यन्तरे कूटे नानाधातुविभूषिते। तटे निषधकूटस्य श्लक्ष्णचारुशिलातले ।। ४१.
रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम्। अनेकवलभीकूटप्रलोलीशतसङ्कटम् ।। ४१.
हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम्। हर्म्यप्रासादबद्धञ्च मुदितञ्चातिविस्तरम् ।। ४१.
उद्यानमालाकलितं त्रिंशद्योजनमायतम्। दुःप्रसह्यममित्रैस्तत् पूर्णमाशीविषोपमैः। उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम् ।। ४१.
तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये। गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम् ।। ४१.
तथैव पश्चिमे कूटे पारिजातशिलोच्चये। देवदानवभागानां समृद्धानि पुराणि तु ।। ४१.
तत्र सोमशिला नाम गिरेस्तस्य महातटे। सोमो यत्रावतरति सदा पर्वसु पर्वसु ।। ४१.
उपासतेऽत्र श्रीमन्तं तारा पतिमनिन्दितम्। ऋषिकिन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम् ।। ४१.
तत्रैव चोत्तरे कूटे ब्रह्मपार्श्वमिति स्मृतम्। स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि ।। ४१.
इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयम्भुवम्। उपासते महात्मानं यक्षगन्धर्वदानवाः ।। ४१.
तथैवायतनं वह्नेः सर्वलोकेषु विश्रुतम्। तत्र विग्रहवान् वाह्निः सेव्यते सिद्धचारणैः ।। ४१.
तथैव चोत्तरे रम्ये त्रिश्रृङ्गे वरपर्वते। ऋषिसिद्धानुचरिते नानाभूतगणालये। पुरं तत् त्रिषु लोकेषु हेमचित्रन्तु विश्रुतम् ।। ४१.
त्रयाणां देवमुख्यानां त्रीण्येवायतनानि च। नारायणस्यायतनं पूर्वकूटे द्विजोत्तमाः । मध्यमे ब्रह्मणः स्थानं शङ्करस्य तु पश्चिमे ।। ४१.
दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। इजाना अभिपूज्यन्ते देवदेवा महाबलाः ।। ४१.
तथा पुराणि रम्याणि देशे चैव व्कचित् व्कचित्। यक्षगन्धर्वनागानां त्रिश्रृङ्गे वरपर्वते ।। ४१.