तथा कुमुदखण्डैश्च महापद्मैरलङ्कृता । यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ।। ४१.
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। उपस्पृष्टजला रम्या वापी मन्दाकिनी तथा ।। ४१.
तथा अलकनन्दा च नन्दा च सरितां वरा । एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ।। ४१.
तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः। सहस्रयोजनायामास्त्रिंशद्योजन विस्तराः ।। ४१.
दश गन्धर्वनगराः समृद्ध्या परया युताः। महाभवनमालाभिरनेकाभिर्विभूषिताः ।। ४१.
सुबाहुहरिकेशाद्या श्चित्रसेनजरादयः। दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ।। ४१.
तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे। नानाधातुशतैश्चित्रैः सिद्ध देवर्षिसेविते ।। ४१.
अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्। एकैकयक्षभवनं महाभवनमालिनम् ।। ४१.
महायक्षालयान्यत्र त्रिंशदाढ्यानि मे श्रृणु। मुदाऽथ परमद्धर्या च संयुक्तानि समन्ततः ।। ४१.
महामालिसुनेत्राद्यास्तथा मणिवरादयः। उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ।। ४१.
इत्येते कथिता यक्षा वाय्वग्निसमतेजसः। येषामधिपतिर्देवः श्रीमान् वैश्रवणः प्रभुः ।। ४१.
तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे। निकुञ्जनिर्झरगुहानैकसानुदरीतटे ।। ४१.
अर्णवादर्णवं यावत् पूर्वपश्चायतेऽचले। किन्नराणां पुरशतं निविष्टं वै व्कचित् व्कचित् ।। ४१.
नैकश्रृङ्गकलापस्य शैलराजस्य कुक्षिषु। नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम् ।। ४१.
द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः । यत्र राजशतं तेषां दीप्तानां बलशालिनाम् ।। ४१.
विवाहो यत्र रुद्रस्य महादेव्योमया सह। तपस्तप्तवती चैव यत्र देवी वराङ्गना ।। ४१.
किरातरूपिणा चैव यत्र रुद्रेण क्रीडितम्। यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम् ।। ४१.
यत्र ताः सम्मुदा युक्ता नानाभूतगणैर्युताः। चित्रपुष्पफलोपेता रुद्रस्याक्रीडभूमयः ।। ४१.
हृष्टा गिरिदरीवासाः कृशोदर्य्यो मनोरमाः। कुन्दर्यो यत्र किन्नर्य्यो रमन्ते स्म सुलोचनाः ।। ४१.
विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसाङ्गणाः। गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः ।। ४१.
तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम्। अर्धनारीनरं रुपं धृतवान् यत्र शंकरः ।। ४१.
तथा शरवणं नाम यत्र जातः षडाननः । यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ।। ४१.
ध्वजापताकिनञ्चैव किङ्किणीजालमालिनम्। यत्र सिंहरथं युक्तं कार्तिकेयस्य धीमतः ।। ४१.
चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे। देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ।। ४१.
यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः। सेनापत्ये च दैत्यारिर्द्वादशार्कप्रतापवान् ।। ४१.
भूतसङ्घावकीर्णानि एतान्यन्यानि च द्विजाः। तत्र तत्र कुमारस्य स्थानान्यायतनानि च ।। ४१.
तथा पाण्डुशिला नाम ह्याक्रीडा क्रौञ्चघातिनः। नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ।। ४१.
तस्य पूर्वे तटे रम्ये सिद्धावासमुदाहृतम्। कलापग्राममित्येवं नाम्ना ख्यातं मनीषिभिः ।। ४१.
मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च। विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ।। ४१.
अन्येषाञ्चोग्रतपसामृषीणां भावितात्मनाम्। हिमवत्याश्रमाणाञ्च सहस्राणि शतानि च ।। ४१.