रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः। मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ८.
इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा। पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ॥ ८.
ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा। मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक्। तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ॥ ८.
यक्ष इत्येष धातुर्वै खादने कृषणे च सः। यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ॥ ८.
रक्ष इत्येष धातुर्यः पालने स विभाव्यते। उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम्। नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ॥ ८.
स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च। तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ॥ ८.
पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ। युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ॥ ८.
नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ। नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ॥ ८.
मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम्। इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ ८.
गते पितरि तौ वीरौ निसर्गादेव दारुणौ। विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ॥ ८.
महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ॥ ८.
तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ ८.
देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥ ८.
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥ ८.
यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्। आहारं स परीप्सन् वै शब्देनानुचचार ह ॥ ८.
आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ। पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥ ८.
असृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ८.
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ८.
तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्। सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥ ८.
रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः। पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥ ८.
जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे। ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा। गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ८.
ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम्। पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ८.
तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ। अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते। तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ॥ ८.
पैशाचेव विवाहेन सुदत्या बुद्धवाहनः। अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ ८.
इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका । ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ॥ ८.
इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी। जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ ८.
सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा। अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ॥ ८.
ब्रह्मधनं प्रसूता सा धनानाच्चैव कन्यका। एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम्। तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ॥ ८.
हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा। विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ ८.
सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश। सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ ८.