दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः। अशून्यमभवन्नित्यं महापारिषदैस्तथा ।। ४०.
तत्र भूतपतेर्भूता नित्यम्पूजां प्रयुञ्जते। झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ।। ४०.
रणितालसितोद्गीतै र्नित्यं वलितवर्जितैः। विस्फूर्ज्जितशतैस्तत्र पूजायुक्ता गणेश्वराः। प्रीताः पुरारिप्रमथास्तत्र क्रीडापराः सदा ।। ४०.
सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्र पूजितः। स्थाने तस्मिन् महादेवः साक्षाल्लोकशिवः शिवः ।। ४०.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चत्वारिंशोऽध्यायः
विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम्। कैलासं देवभक्तानामालयं सुकृतात्मनाम् ।। ४१.
तस्य कूटतटे रम्ये मध्यमे कुन्दसन्निभे। योजनानां शतायामे पञ्चाशच्च तथायतम् ।। ४२.
सुवर्णमणिचित्राभि अनेकाभिरलंकृतम्। महाभवनमालाभिर्भूषितं नैकविस्तरम् ।। ४१.
धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः। नगरन्तदनाधृष्यमृद्धियुक्तं मुदायुतम् ।। ४१.
तस्य मध्ये सभा रम्या नानाकनकमण्डिता। विपुला नाम विख्याता विपुलस्तम्भतोरणा ।। ४१.
तत्र तत्पुष्पकं नाम नानारत्नविभूषितम्। महाविमानं रुचिरं सर्वकामगुणैर्युतम् ।। ४१.
मनोजवं कामगमं हेमजालविभूषितम्। वाहनं यक्षराजस्य कुबेरस्य महात्मनः ।। ४१.
तत्रैकपिङ्गलो देवो महादेवसखः स्वयम्। वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः ।। ४१.
तत्राप्सरोगणैर्य्यक्षैर्गन्धर्वैः सिद्धचारणैः। वसति स्म महात्माऽसौ कुबेरो देवसत्तमः ।। ४१.
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ। कुमुदः शङ्ख नीलौ च नन्दनो निधिसत्तमः ।। ४१.
अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः। महानिधानास्तिष्ठन्ति सभायां रत्नसञ्चिताः ।। ४१.
तथेन्द्राग्नियमादीनां देवानामप्सरोगणैः। तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः ।। ४१.
कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः। पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारकाः ।। ४१.
तत्र मन्दाकिनी नाम सुरम्या विपुलोदका। सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा ।। ४१.
जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः। नीलवैदूर्य्यपत्रैश्च गन्धोपैतैर्महोत्पलैः ।। ४१.
तथा कुमुदखण्डैश्च महापद्मैरलङ्कृता । यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ।। ४१.
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। उपस्पृष्टजला रम्या वापी मन्दाकिनी तथा ।। ४१.
तथा अलकनन्दा च नन्दा च सरितां वरा । एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ।। ४१.
तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः। सहस्रयोजनायामास्त्रिंशद्योजन विस्तराः ।। ४१.
दश गन्धर्वनगराः समृद्ध्या परया युताः। महाभवनमालाभिरनेकाभिर्विभूषिताः ।। ४१.
सुबाहुहरिकेशाद्या श्चित्रसेनजरादयः। दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ।। ४१.
तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे। नानाधातुशतैश्चित्रैः सिद्ध देवर्षिसेविते ।। ४१.
अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्। एकैकयक्षभवनं महाभवनमालिनम् ।। ४१.
महायक्षालयान्यत्र त्रिंशदाढ्यानि मे श्रृणु। मुदाऽथ परमद्धर्या च संयुक्तानि समन्ततः ।। ४१.
महामालिसुनेत्राद्यास्तथा मणिवरादयः। उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ।। ४१.