पिशाचके गिरिवरे हर्म्यं प्रासाद मण्डितम्। यक्षगन्धर्वचरितं कुबेरभवनं महत् ।। ३०.
हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः। प्रभावात्तस्य शैलोऽसौ महानाभः प्रकाशते ।। ३९.
कुमुदे किन्नरावासा अञ्जने च महोरगाः। कृष्णे गन्धर्व्वनगरा महाभवनशालिनः ।। ३९.
पाण्डुरे चारुशिखरे महाप्राकारतोरणे। विद्याधरपुरं तत्र महाभवनमालिनम् ।। ३९.
सहस्रशिखरे शैले दैत्यानामुग्रकर्म्मणाम्। पुराणि समुदीर्णानां सहस्रं हेममालिनाम् ।। ३९.
मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः। पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ।। ३९.
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च। सुपक्षे पर्वतवरे चत्वार्य्यायतनानि च ।। ३९.
गन्धर्वैः किन्नरैर्यक्षैर्न्नागैर्विद्याधरोत्तमैः। सिद्धैर्हि तेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ।। ३९.
मर्य्यादापर्वते शुभ्रे देवकूटे निबोधत। विस्तीर्णे सिखरे तस्य कूटे गिरिवरस्य ह ।। ४०.
समन्ताद्योजनशतं महाभवनमण्डितम्। जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ।। ४०.
नैकैर्महा पक्षिगणैर्गारुडैः शीग्रविक्रमैः। सम्पूर्णवीर्यसम्पन्नैर्दमनैरुरगारिभिः ।। ४०.
पक्षिराजस्य भवनं प्रथमं तन्महात्मनः। महावायुप्रवेशस्य शाल्मलि द्वीपवासिनः ।। ४०.
तस्यैव चारुमूर्ध्नस्तु कूटेषु च महर्द्धिषु। दक्षिणेषु विचित्रेषु सप्तस्वपि तु शोभिनः ।। ४०.
सन्ध्याभ्राभाः समुदिता रुक्मप्राकारतोरणाः। महाभवनमालाभिः शोभिता देवनिर्मिताः ।। ४०.
त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः। सप्त गन्धर्वनगरा नर नारीसमाकुलाः ।। ४०.
आग्नेया नाम गन्धर्वा महाबलपराक्रमाः। कुबेरानुचरा दीप्तास्तेषान्ते भवनोत्तमाः ।। ४०.
तस्य चोत्तरकूटेषु भुवनस्य महागिरेः। हर्म्यप्रासादबद्धं च उद्यानवनशोभितम् ।। ४०.
पुरमाशीविषैः पुर्णं महाप्राकारतोरणम्। वादित्रशतनिर्घोषैरानन्दितवनान्तरम् ।। ४०.
दुष्प्रसह्यममित्राणां त्रिंशद्योजनमण्डलम्। नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम्। सिद्धदेवर्षिचरितं देवकूटे निबोधत ।। ४०.
द्वितीये द्विजशार्दूल मर्य्यादापर्वते शुभे। महाभवनमालाभिर्नानावर्णाभिरावृतम् ।। ४०.
सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् । विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम् ।। ४०.
नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् । षष्टियोजनविस्तीर्णं शतयोजनमायतम् ।। ४०.
नगरं कालकेयानामसुराणां दुरासदम्। देवकूटतटे रम्ये सन्निविष्टं सुदुर्जयम्। महाभ्रचयसङ्काशं सुनासन्नाम विश्रुतम् ।। ४०.
तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम्। द्विषष्टियोजनायामं हेमप्राकारतोरणम् ।। ४०.
हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम्। औत्कचानां प्रमुदितं राक्षसानां महापुरम् ।। ४०.
मध्यमे तु महाकूटे देवकूटस्य वै गिरेः । सुवर्णमणिपाषाणैश्चित्रैः श्लक्षणतरैः शुभैः। शाखाशतसहस्राद्यैर्नैकारोहसमाकुलम् ।। ४०.
स्रिग्ध पर्णमहामूलमनेकस्कन्धवाहनम्। रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ।। ४०.
तत्र भूतवटन्नाम नानाभूतगणालयम्। महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः। दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम् ।। ४०.
वराहगजसिंहर्क्षशार्दूलकरभाननैः। गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः ।। ४०.
कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः। नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ।। ४०.