वेणुमन्ते महाशैले विद्याधरपुरत्रयम्। त्रिंशदद्योजनविस्तीर्णं पञ्चाशद्योजनायतम् ।। ३९.
उलूको रोमशश्चैव महानेत्रश्च वीर्यवान्। विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ।। ३९.
वैकङ्के शैलशिखरे ह्यन्तःकन्दरनिर्झरे। महोच्चश्रृङ्गे रुचिरे रत्नधातुविचित्रिते ।। ३९.
तत्रास्ते गारुडिर्नित्यं उरगारिर्दुरासदः। महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ।। ३९.
महाप्रमाणै र्विक्रान्तैर्महाबलपराक्रमैः। सशैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ।। ३९.
करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः। वृषभाङ्को महादेवः शङ्करो योगिनां प्रभुः ।। ३९.
नानावेषधरैर्भूतैः प्रमथैश्च दुरासदैः। करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ।। ३९.
वसुधारे वसुमतां वसूनाममितौजसाम्। अष्टावायतनान्याहुः पूजितानि महात्मनाम् ।। ३९.
रत्नधातौ गिरिवरे ऋषीणाञ्च महात्मनाम्। सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ।। ३९.
महाप्रजापतेः स्थानं हेमश्रृङ्गो नगोत्तमे। चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ।। ३०.
गजशैले भगवतो नानाभूतगणावृताः । रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ।। ३९.
सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसन्निभे। नैकोदरदरीवप्रनिकुञ्जैश्चोपशोभिते ।। ३९.
आदित्यानां वसूनाञ्च रुद्राणाञ्चामितौजसाम्। तत्रायतनविन्यासा रम्याश्चैवाश्विनोरपि ।। ३९.
स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे। तत्र पूजापरा नित्यं यक्ष गन्धर्वकिन्नराः ।। ३९.
गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे। अशीत्यामरपुर्य्याभा महाप्राकारतोरणा ।। ३९.
सिद्धा ह्यपत्तना नाम गन्धर्वा युद्ध शालिनः। येषामधिपतिर्देवो राजराजः कपिञ्जलः ।। ३९.
अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः। ऊर्जिता देवरिपवो महाबलपराक्रमाः ।। ३९.
शतश्रृङ्गे पुरशतं यक्षाणाममितौजसाम्। ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ।। ३९.
विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे। गुहानिरतवासस्य गुहस्यायतनं महत् ।। ३९.
श्वेतोदरे महाशैले महाभवनमण्डिते। पुरं गरुढपुत्रस्य सुनाभस्य महात्मनः ।। ३९.
पिशाचके गिरिवरे हर्म्यं प्रासाद मण्डितम्। यक्षगन्धर्वचरितं कुबेरभवनं महत् ।। ३०.
हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः। प्रभावात्तस्य शैलोऽसौ महानाभः प्रकाशते ।। ३९.
कुमुदे किन्नरावासा अञ्जने च महोरगाः। कृष्णे गन्धर्व्वनगरा महाभवनशालिनः ।। ३९.
पाण्डुरे चारुशिखरे महाप्राकारतोरणे। विद्याधरपुरं तत्र महाभवनमालिनम् ।। ३९.
सहस्रशिखरे शैले दैत्यानामुग्रकर्म्मणाम्। पुराणि समुदीर्णानां सहस्रं हेममालिनाम् ।। ३९.
मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः। पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ।। ३९.
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च। सुपक्षे पर्वतवरे चत्वार्य्यायतनानि च ।। ३९.
गन्धर्वैः किन्नरैर्यक्षैर्न्नागैर्विद्याधरोत्तमैः। सिद्धैर्हि तेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ।। ३९.
मर्य्यादापर्वते शुभ्रे देवकूटे निबोधत। विस्तीर्णे सिखरे तस्य कूटे गिरिवरस्य ह ।। ४०.
समन्ताद्योजनशतं महाभवनमण्डितम्। जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ।। ४०.