कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः। चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ।। ३९.
नानावर्णैश्च शखुनैर्नानारत्नतनूरुहैः। सुवर्णपुष्पैश्चानेकैर्मणितुण्डैर्द्विजातिभिः ।। ३९.
वल्गुस्वरैः सदोन्मत्तैः सम्पतद्भिः समन्ततः। शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ।। ३९.
मत्तभ्रमरसन्नादैर्विहङ्गानाञ्च कूजितैः। नित्यमा नन्दितवनं तस्मात् क्रीडावनं महत् ।। ३९.
सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः। मणिश्रृङ्गकलापन्नैः पतद्भिश्च समन्ततः ।। ३९.
शाखामृगैश्च चित्राङ्गैर्नानारत्नतनूरुहैः। नानावर्णप्रकारैश्च सत्वैरन्यैः समाकुलम् ।। ३९.
मुञ्चन्ति पुष्पवर्षञ्च तत्र बाललता द्रुमाः। पारिजातकपुष्पाणां मन्दमारुत कम्पिताः ।। ३९.
शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः। विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः। न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ।। ३९.
नित्यमुन्मादजननो मधुमाधवसम्भवः। वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः। नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ।। ३९.
तस्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः। यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ।। ३९.
विद्याधराश्च सिद्धाश्च किन्नराश्च मुदा युताः। अथाप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ।। ३९.
तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम्। कुमुञ्चं शैलराजानं नैकनिर्झरकन्दरम् ।। ३९.
तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः। अष्टौ पुर्यो ह्युदीर्णाश्च दानवानां महात्मनाम् ।। ३९.
वज्रके पर्वते चापि अनेकशिखरोदरैः। उदीर्णा राक्षसावासा नरनारीसमाकुलाः ।। ३९.
नीलका नाम ते घोरा राक्षसाः कामरूपिणः। तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ।। ३९.
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च। हयाननानां विख्याताः किन्नराणां महात्मनाम् ।। ३९.
देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा। तत्र किन्नरराजानो दशपञ्च च गर्विताः ।। ३९.
सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः। बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ।। ३९.
अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः। महोरगशतास्तत्र सुवर्णवशवर्तिनः ।। ३९.
सुनागेऽपि महाशैले दैत्यावासा- सहस्रशः। हर्म्यप्रासाद कलिलाः प्रांशुप्राकारतोरणाः ।। ३९.
वेणुमन्ते महाशैले विद्याधरपुरत्रयम्। त्रिंशदद्योजनविस्तीर्णं पञ्चाशद्योजनायतम् ।। ३९.
उलूको रोमशश्चैव महानेत्रश्च वीर्यवान्। विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ।। ३९.
वैकङ्के शैलशिखरे ह्यन्तःकन्दरनिर्झरे। महोच्चश्रृङ्गे रुचिरे रत्नधातुविचित्रिते ।। ३९.
तत्रास्ते गारुडिर्नित्यं उरगारिर्दुरासदः। महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ।। ३९.
महाप्रमाणै र्विक्रान्तैर्महाबलपराक्रमैः। सशैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ।। ३९.
करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः। वृषभाङ्को महादेवः शङ्करो योगिनां प्रभुः ।। ३९.
नानावेषधरैर्भूतैः प्रमथैश्च दुरासदैः। करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ।। ३९.
वसुधारे वसुमतां वसूनाममितौजसाम्। अष्टावायतनान्याहुः पूजितानि महात्मनाम् ।। ३९.
रत्नधातौ गिरिवरे ऋषीणाञ्च महात्मनाम्। सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ।। ३९.
महाप्रजापतेः स्थानं हेमश्रृङ्गो नगोत्तमे। चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ।। ३०.