विमलस्वादुपानीयैर्नैकप्रस्रवमैर्युतः। निकुञ्जैः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ।। ३९.
पुष्मौडुपवहाभिश्च स्रवन्तीभिरलंकृतः। किन्नराचरिताभिश्च दरीभिः सर्वतस्ततः ।। ३९.
यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः। शोभितश्च सुखासेव्यैश्चित्रैर्गहनसङ्कटैः ।। ३९.
नानासत्वगणाकीर्णैः सुपानीयैः सुखाश्रयैः। नानापुष्पफलोपेतैः पादपैः समलंकृतः ।। ३९.९ . तस्मिन् गुहाश्रयाकीर्णे अनेकोदरकन्दरे। क्रीडावनं महेन्द्रस्य सर्वकामगुणैर्युतम् ।। ३९.
तत्र तद्देवराजस्य पारिजातवनं महत्। प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ।। ३९.
तरुणादित्यसंकाशै र्महागन्धैर्मनोहरैः। पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ।। ३९.
समग्रं योजनशतं तं गन्धमनिलो ववौ। पारिजातकपुष्माणां माहेन्द्र वननिर्गतः ।। ३९.
वैढूर्यनीलैः कमलैः सौवर्णैर्वज्रकेसरैः। सर्वगन्धबलोपेतैर्मत्तषट्पदनादितैः ।। ३९.
व्याकोशौर्विकचैश्चापि शतपत्रैर्मनोहरैः। सपङ्कजैर्महा पत्रैर्वाप्यस्तत्र विभूषिताः ।। ३९.
विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः। परिप्सन्देक्षणा नित्यं मीनयूथाः सहस्रशः ।। ३९.
कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः। चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ।। ३९.
नानावर्णैश्च शखुनैर्नानारत्नतनूरुहैः। सुवर्णपुष्पैश्चानेकैर्मणितुण्डैर्द्विजातिभिः ।। ३९.
वल्गुस्वरैः सदोन्मत्तैः सम्पतद्भिः समन्ततः। शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ।। ३९.
मत्तभ्रमरसन्नादैर्विहङ्गानाञ्च कूजितैः। नित्यमा नन्दितवनं तस्मात् क्रीडावनं महत् ।। ३९.
सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः। मणिश्रृङ्गकलापन्नैः पतद्भिश्च समन्ततः ।। ३९.
शाखामृगैश्च चित्राङ्गैर्नानारत्नतनूरुहैः। नानावर्णप्रकारैश्च सत्वैरन्यैः समाकुलम् ।। ३९.
मुञ्चन्ति पुष्पवर्षञ्च तत्र बाललता द्रुमाः। पारिजातकपुष्पाणां मन्दमारुत कम्पिताः ।। ३९.
शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः। विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः। न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ।। ३९.
नित्यमुन्मादजननो मधुमाधवसम्भवः। वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः। नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ।। ३९.
तस्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः। यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ।। ३९.
विद्याधराश्च सिद्धाश्च किन्नराश्च मुदा युताः। अथाप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ।। ३९.
तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम्। कुमुञ्चं शैलराजानं नैकनिर्झरकन्दरम् ।। ३९.
तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः। अष्टौ पुर्यो ह्युदीर्णाश्च दानवानां महात्मनाम् ।। ३९.
वज्रके पर्वते चापि अनेकशिखरोदरैः। उदीर्णा राक्षसावासा नरनारीसमाकुलाः ।। ३९.
नीलका नाम ते घोरा राक्षसाः कामरूपिणः। तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ।। ३९.
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च। हयाननानां विख्याताः किन्नराणां महात्मनाम् ।। ३९.
देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा। तत्र किन्नरराजानो दशपञ्च च गर्विताः ।। ३९.
सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः। बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ।। ३९.
अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः। महोरगशतास्तत्र सुवर्णवशवर्तिनः ।। ३९.
सुनागेऽपि महाशैले दैत्यावासा- सहस्रशः। हर्म्यप्रासाद कलिलाः प्रांशुप्राकारतोरणाः ।। ३९.