एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ॥ ८.
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ । मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ॥ ८.
अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि । पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ॥ ८.
मातुलं भजते पुत्रः पितॄन् भजति कन्यका। यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ ८.
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम्। मातॄणां शीलदोषेण तथा शीलगुणैः पुनः। विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ८.
बलशीलादिभिस्तासामदितिर्धर्मतत्परा। धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ८.
(गन्धशीला दितिश्चैव प्रवार्ध्ययनशालिनी।) गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता। विनता तु पुनर्द्देवी वैहायसगतिप्रिया ॥ ८.
तपोमयेन शीलेन सुरभिः समलंकृता। क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ८.
दनायुषायाः शीलं वै वैरनुग्रह लक्षणम्। त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ॥ ८.
इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम्। कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा। क्षमातश्चैव भिन्नानि भावितार्थबलेन च ॥ ८.
रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः। मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ८.
इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा। पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ॥ ८.
ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा। मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक्। तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ॥ ८.
यक्ष इत्येष धातुर्वै खादने कृषणे च सः। यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ॥ ८.
रक्ष इत्येष धातुर्यः पालने स विभाव्यते। उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम्। नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ॥ ८.
स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च। तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ॥ ८.
पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ। युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ॥ ८.
नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ। नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ॥ ८.
मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम्। इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ ८.
गते पितरि तौ वीरौ निसर्गादेव दारुणौ। विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ॥ ८.
महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ॥ ८.
तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ ८.
देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥ ८.
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥ ८.
यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्। आहारं स परीप्सन् वै शब्देनानुचचार ह ॥ ८.
आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ। पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥ ८.
असृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ८.
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ८.
तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्। सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥ ८.
रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः। पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥ ८.