उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी। यक्षगन्धर्वचरिता सिद्धचारणसेविता ।। ३८.
मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः। न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहिमण्डितः ।। ३८.
तत्र चन्द्रप्रभः श्रीमान् पूर्णचन्द्रनिभानन)। सहस्रवदनो देवो नीलवासाः सुरारिहा ।। ३८.
पद्म माल्यधरस्थल्यां महाभागोऽपराजितः। इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा ।। ३८.
तस्मिन्नायतने साक्षादनादिनिधनो हरिः। पद्मोपहारौर्विविधै रिज्यते सिद्धचारणैः ।। ३८.
तदनन्तसदो नाम सर्वलोकेषु विश्रुतम्। पद्ममालावलम्बाभिर्मालाभिरुपशोभितम् ।। ३८.
तथा सहस्रशिखरकुमुदस्यान्तरेण च। पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् । इषुक्षेपोच्चशिखरं नानाविहगसेवितम् ।। ३८.
महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः। मधुस्रवैर्महावृक्षैरुपेतं तत् समन्ततः ।। ३८.
तत्राश्रमं महापुण्यं देवर्षिगणसेवितम्। शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः ।। ३८.
शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च। परूषकस्थली रम्या ह्यनेकायतयोजना ।। ३८.
बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः। फलैः प्रक्लिद्यते भूमिः परुषैर्वृन्तविच्युतैः ।। ३८.
तां स्थलीमुपजीवन्ति किन्नरोरगसाधवः। परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः ।। ३८.
कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे। द्वियोजनशतायामा विस्तीर्णा शतयोजना ।। ३८.
स्थली मनोहरा सा हि नानावनविभूषिता । नानापुष्पफलोपेता किन्नरोरगसेविता ।। ३८.
द्राक्षावनानि रम्याणि तथा नागवनानि च। खर्जूरवनखण्डानि नीलाशोकवनानि च ।। ३८.
दाडिमानाञ्च स्वादूनामक्षोटकवनानि च। अतसीतिलकानाञ्च कदलीनां वनानि च ।। ३८.
बदरीणाञ्च स्वादूनां वनखण्डानि सर्वशः। स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च ।। ३८.
तथा पुष्पकशैलस्य महामेघस्य चान्तरे। षष्टियोजनविस्तीर्णा सा भूमिः शतमायता ।। ३८.
समा पाणितलप्रख्या कठिना पाण्डुरा घना। वृक्षगुल्मलतागुल्मैस्तृणैश्वापि विवर्जिता ।। ३८.
वर्जिता विविधैः सत्वैर्न्नित्यमस्मिन् निराश्रया। सा काननस्थली नाम दारुणा रोमहर्षणा ।। ३८.
महासरांसि च तथा महावृक्षास्तथैव च। महावनानि सर्वाणि कान्तनामानि सर्वशः ।। ३८.
सरसाञ्च वनानाञ्च सा स्थली च प्रजापतेः। क्षुद्राणां सरसाञ्चैव सङ्ख्या तत्र न विद्यते ।। ३८.
दश द्वादश सप्ताष्टौ विंशत्र्रिंशच्च योजनाः। स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च ।। ३८.
केचित् सन्ति महाघोराः श्यामाः पर्वतकुक्षयः। सूर्यांशुजालैरस्पृष्टा नित्यं शीता दुरासदाः ।। ३८.
तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः। शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च ।। ३८.
अतः परं प्रवक्ष्यामि यस्मिन् यस्मिन् शिलोच्चये। ये सन्निविष्टा देवानां विविधानां गृहोत्तमाः ।। ३९.
तत्र योऽसौ महाशैलः शीतान्तो नैक विस्तरः। नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ।। ३९.
नितम्बैः पुष्पसालम्बैर्नैकसत्त्वगुणालयः। महार्हमणिचित्राभिर्हेमवंशैरलंकृतः ।। ३९.
नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः। तटैः कुसुमसङ्कीर्णैर्मत्तभ्रमरनादितैः ।। ३९.
लतालम्बैश्चित्रवद्भिश्चित्रैर्धातुशतार्चितैः। सानुभी रत्नचित्रैश्च पुष्पाढ्यैश्च विभूषितः ।। ३९.