त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता। तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः ।। ३८.
सुस्वादैर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः। शीर्यमाणैर्विशीर्णैश्च प्रक्लिन्नतलमृत्तिकाः ।। ३८.
तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिन्नराः। सिद्धा नागाश्च बहुशो नित्यं बिल्वफलाशिनः ।। ३८.
अन्तरे वसुधारस्य रत्नधारस्य चान्तरे। त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम् ।। ३८.
सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्। पुष्पलक्ष्म्यावृतं भाति प्रदीप्तमिव सर्वतः ।। ३८.
यस्य गन्धेन दिव्येन वास्यते परिमण्डलम्। समग्रं योजनशतं काननानि समन्ततः ।। ३८.
तत् सिद्धचारणगणैरप्सरोभिश्च सेवितम् । रम्यं तत् किंशुक वनं जलाशयविभूषितम् ।। ३८.
तत्रादित्यस्य देवस्य दीप्तमायतनं महत् । मासे मासेऽनतरति तत्र सूर्यः प्रजापतिः ।। ३८.
तत्र कालस्य कर्त्तारं सहस्रांशुं सुरोत्तमम्। सिद्धसङ्घा नमस्यन्ति सर्वलोकनमस्कृतम् ।। ३८.
पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु। षट्त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम् ।। ३८.
क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम्। दुष्पारं सर्वसत्वानां दुर्गमं लोमहर्षणम् ।। ३८.
इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः। यथानुपूर्वमखिलाः सिद्धसङ्घनिषेविताः ।। ३८.
पश्विमायां दिशितथा येऽन्तरद्रोणिविस्तराः। तान् वर्ण्यमानांस्तत्वेन श्रृणुतेमान् द्विजोत्तमाः ।। ३८.
अन्तराले गिरौ तस्मिन् सुवक्षः शिखिशैलयोः। समन्ताद्योजनशतमेकभूमं शिलातलम् ।। ३८.
नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम्। अगम्यं सर्वसत्त्वानामीश्वराणां सुदारुणम् ।। ३८.
मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम्। ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम् ।। ३८.
अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः। ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः ।। ३८.
अधिदेवकृते योऽसावग्नेर्भागो विधीयते। स तत्र ज्वलते नित्यं लोकसंवर्त्तकोऽनलः ।। ३८.
अन्तरे शैलवरयोर्देवा वापि तयोः शुभाः । मातुलुङ्गस्थली तत्र ह्यायामाद्दशयोजना ।। ३८.
मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः। फलैः परिणतैः सर्वा शोभिता सा महास्थली ।। ३८.
तत्राश्रमं महा पुण्यं सिद्धसङ्घनिषेवितम्। बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम् ।। ३८.
तथैव शैलवरयोः कुमुदाञ्जनयोरपि। अन्तरे केसरद्रोणी ह्यनेकायाम योजना ।। ३८.
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायतविस्तृतैः। चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः ।। ३८.
मधुसर्पीरजः पृक्तैर्महागन्धैर्मनोहरैः। शबलं तद्वनं भाति कुसुमैः सर्वकालजैः ।। ३८.
तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत्। प्रकाशन्त्रिषु लोकेषु सर्वलोकनमस्कृतम् ।। ३८.
अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि। त्रिंशद्योजनविस्तीर्णं नवत्यायतयोजनम् ।। ३८.
श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् । सुखपादप्रचा रञ्च निम्नोन्नतविवर्जितम् ।। ३८.
मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी। सहस्रपत्रैर्व्याकोशैः छत्रमात्रैरलङ्कृता ।। ३८.
पुण्डरीकैर्महापद्मै रुचिरैर्गन्धशालिभिः । शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः ।। ३८.
मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः। मृदुगद्घदकण्ठानां किन्नराणाञ्च निस्वनैः ।। ३८.