माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः। ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतः ।। ३७.
वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च। सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ।। ३७.
वृक्षगुल्मलतागुच्छैः सर्ववीरुद्भिरीरितम्। दूर्वाप्रस्तारमेवाथ सर्वसत्वविवर्जितम् ।। ३७.
तथा निषधशैलस्य देवशैलस्य चोत्तरे। सहस्रयोजनायामा शतयोजनविस्तृता ।। ३७.
सवांह्येकशिला भूमिर्वृक्षवीरुद्विवर्जिता। आप्लुता पादमात्रेण ह्युदकेन समन्ततः ।। ३७.
इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः। मेरोः पूर्वेण विप्रेन्द्रा यथावदनुपूर्वशः ।। ३७.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः
अतः परं प्रवक्ष्यामि दक्षिणान्दिशमाश्रिताः। या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः ।। ३८.
शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। श्लक्ष्णभूमिश्रिया युक्तं लतालिङ्गितपादपम् ।। ३८.
पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्। उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ३८.
पक्वैर्विद्रुमसङ्काशै र्मधुपूर्णैर्मनोरमैः। ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः ।। ३८.
तत् सिद्धयक्षगन्धर्वाः किन्नरा उरगास्तथा। विद्याधराश्च मुदिता उपजीवन्ति नित्यशः ।। ३८.
प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः। सुरसामलतोयास्ताः सरांसि च समन्ततः ।। ३८.
तत्राश्रमं भगवतः कर्द्दमस्य प्रजापतेः। रम्यं सुरगणाकीर्णं सर्वतश्चित्रकाननम्। समन्ताद्योजनशतं तद्वनं परिमण्डलम् ।। ३८.
ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु। शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ३८.
तरुणादित्यसङ्काशैः पुण्डरीकैः समन्ततः। सहस्रपत्रैर्विकचैर्महापद्मैरलङ्कृतम् ।। ३८.
तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः। प्रफुल्ल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः ।। ३८.
सरोवरं महापुण्यं देवदानवसेवितम्। महोरगैरध्युषितं नीलजाल विभूषितम् ।। ३८.
तस्य मध्ये जनपदो ह्यायतः शतयोजनः। त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः ।। ३८.
तस्योपरि महारम्या प्रांशु प्राकारतोरणा। नरनारीगणाकीर्णा स्फीता विभवविस्तरैः ।। ३८.
वलभीकूटनिर्व्यूहैर्मणिभक्तिविचित्रितैः। रत्नचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः ।। ३८.
महाभवनमालाभिर्महाप्रांशुभिरुत्तमैः। विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम् ।। ३८.
विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः। चित्रवेषधरः स्रग्वी माहेन्द्रसदृशद्युतिः ।। ३८.
दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्। विद्याधरसहस्राणामनेकेषां स राजराट् ।। ३८.
विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। सरसस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम् ।। ३८.
पञ्चेषुक्षेपणैर्विद्धं सुशाखं वर्णशोभितम् । सर्व कालफलं तत्र स्फीतं चाम्रवणं महत् ।। ३८.
फलैः कनकसङ्काशैर्महास्वादैः सुगन्धिभिः। महाकुम्भप्रमाणैश्चातनुशाखैः समन्ततः ।। ३८.
गन्धर्वकिन्नरा यक्षा नागा विद्याधरास्तथा। पिबन्त्याम्ररसं तत्र सुस्वादुं ह्यमृतोपमम् ।। ३८.
तत्राम्ररसपीतानां मुदितानां महात्मनाम्। श्रूयन्ते हृष्ट पुष्टानां नादास्तस्मिन् महावने ।। ३८.
सुमूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे। समा सुरभिपूर्णाढ्या विहङ्गैरुपशोभिता ।। ३८.