तस्मिन् वने भगवती साक्षाच्छ्रीर्नित्यमेव हि। देवी सन्निहिता तत्र सिद्धसङ्घैर्नमस्कृता ।। ३७.
विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे। शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ३७.
विपुलञ्चम्पकवनं सिद्धचारणसेवितम्। पुष्पलक्ष्म्यावृतं भाति ज्वलन्तमिव नित्यदा ।। ३७.
अर्द्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिभिः । प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ।। ३७.
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तरैः । मनः शिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ।। ३७.
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः। विराजते वनं सर्वं मत्तभ्रमरनादितम् ।। ३७.
तद्वनं दानवैर्देवगन्धर्वैर्यक्षराक्षसैः। किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ।। ३७.
तत्राश्रमं भगवतः कश्यपस्य प्रजापतेः। सिद्धसाध्यगणा कीर्णं नानाश्रुतिविभूषितम्। महानीलकुमुञ्जाभ्यामन्तरेप्यचलावथ ।। ३७.
महानद्याः सुखायास्तु तीरे सिद्धनिषेविते। पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम्। रम्यं तालवनं तद्धि अर्द्धक्रोशोच्चमस्तकम् ।। ३७.
महामूलैर्महासारैः स्थिरैरविरलैः शुभैः। कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महा फलैः। मृष्टगन्धरसोपेतैरुपेतं सिद्धसेवितम् ।। ३७.
माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः। ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतः ।। ३७.
वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च। सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ।। ३७.
वृक्षगुल्मलतागुच्छैः सर्ववीरुद्भिरीरितम्। दूर्वाप्रस्तारमेवाथ सर्वसत्वविवर्जितम् ।। ३७.
तथा निषधशैलस्य देवशैलस्य चोत्तरे। सहस्रयोजनायामा शतयोजनविस्तृता ।। ३७.
सवांह्येकशिला भूमिर्वृक्षवीरुद्विवर्जिता। आप्लुता पादमात्रेण ह्युदकेन समन्ततः ।। ३७.
इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः। मेरोः पूर्वेण विप्रेन्द्रा यथावदनुपूर्वशः ।। ३७.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः
अतः परं प्रवक्ष्यामि दक्षिणान्दिशमाश्रिताः। या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः ।। ३८.
शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। श्लक्ष्णभूमिश्रिया युक्तं लतालिङ्गितपादपम् ।। ३८.
पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्। उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ३८.
पक्वैर्विद्रुमसङ्काशै र्मधुपूर्णैर्मनोरमैः। ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः ।। ३८.
तत् सिद्धयक्षगन्धर्वाः किन्नरा उरगास्तथा। विद्याधराश्च मुदिता उपजीवन्ति नित्यशः ।। ३८.
प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः। सुरसामलतोयास्ताः सरांसि च समन्ततः ।। ३८.
तत्राश्रमं भगवतः कर्द्दमस्य प्रजापतेः। रम्यं सुरगणाकीर्णं सर्वतश्चित्रकाननम्। समन्ताद्योजनशतं तद्वनं परिमण्डलम् ।। ३८.
ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु। शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ३८.
तरुणादित्यसङ्काशैः पुण्डरीकैः समन्ततः। सहस्रपत्रैर्विकचैर्महापद्मैरलङ्कृतम् ।। ३८.
तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः। प्रफुल्ल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः ।। ३८.
सरोवरं महापुण्यं देवदानवसेवितम्। महोरगैरध्युषितं नीलजाल विभूषितम् ।। ३८.
तस्य मध्ये जनपदो ह्यायतः शतयोजनः। त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः ।। ३८.
तस्योपरि महारम्या प्रांशु प्राकारतोरणा। नरनारीगणाकीर्णा स्फीता विभवविस्तरैः ।। ३८.