महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा। वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ।। ३६.
इत्येते पर्वतवरा अन्ये च गिरयस्तथा। पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ।। ३६.
सरसो मानसस्येह दक्षिणा ये महाचलाः। ये कीर्तिता मया ते वै नामतस्तान्निबोधत ।। ३६.
शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः। कलिङ्गश्च पतङ्गश्च रुचकश्चैव सानुमान् ।। ३६.
ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः। समूलो विषधारश्च रत्नधारश्च पर्वतः ।। ३६.
एकश्रृङ्गो महामूलो गजशैलः पिशाचकः। पञ्चशैलोऽथ कैलासो हिमवंश्चाचलोत्तमः ।। ३६.
इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः। दिग्भागो दक्षिणे प्रोक्ता मेरोरमरवर्च्चसः ।। ३६.
अपरेण सितोदस्य सरसो द्विजसत्तमाः। उत्तमा ये महाशैलास्तान् प्रवक्ष्ये यथाक्रमम् ।। ३६.
सुवक्षाः शिखिशैलश्च कालो वैढूर्यपर्वतः। कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ।। ३६.
कुमुदो मधुमांश्चैव अञ्जनीमुकुटस्तथा। कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्चह ।। ३६.
पारियात्रश्च शैलेन्द्रस्त्रिश्रृङ्गश्चाचलोत्तमः। इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ।। ३६.
महाभद्रस्य सरस उत्तरेणापि श्रीमतः। ये मया पूर्वतः प्रोक्तास्तान्वदिष्ये यथाक्रमम् ।। ३६.
शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः। नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ।। ३६.
नीलः कनक श्रृङ्गश्च शतश्रृङ्गश्च पर्वतः। पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः। जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ३६.
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम्। स्थल्योऽह्यन्तरद्रोण्यश्च सरांसि च निबोधत ।। ३६.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः
शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु। द्रोण्यो विहङ्गसङ्घुष्टा नानासत्त्वनिषेविताः ।। ३७.
त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः। सुरसामलपानीयरम्यं तत्र सरोवरम् ।। ३७.
द्रोण्यायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः। सहस्रशतपत्रैर्हि महापद्मैरलंकृतम् ।। ३७.
महोरगैरध्युषितं महाभोगैर्दुरासदैः। देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ।। ३७.
पुण्यं तच्छ्रीसरो नाम प्रकाशं दिवि चेह च। प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ।। ३७.
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह। कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ।। ३७.
नित्यं व्याकोशमजरं चाञ्चल्याच्चातिमण्डलम्। चारुकेशरजालाढ्यं मत्तषट्पदनादितम् ।। ३७.
तस्मिन् पद्मे भगवती साक्षाच्छ्रीर्नित्यमेव हि। लक्ष्म्याः पद्मं तदावासं मूर्त्तिमत्या न संशयः ।। ३७..
सरसस्तस्य पूर्वस्मिन् तीरे सिद्धनिषेवित। सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ।। ३७.
शतयोजनविस्तीर्णं त्रियोजनशताय तम्। अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ।। ३७.
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम्। फलैः सुवर्णसङ्काशैर्हरितैः पाण्डरैस्तथा ।। ३७.
अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः। शीर्यमाणैः पतद्भिश्च कीर्णा भूमिर्निरन्तरा ।। ३७.
नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम्। गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ।। ३७.
सिद्धैश्चैव समाकीर्णं नित्यं बिल्वफलाशिभिः। विविधैर्भूतसङ्घैश्च नित्यमेव निषेवितम् ।। ३७.