तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीर्तिभिः। अक्षयं क्षेममपरं लोकं प्राप्तं सनातनम् ।। ३५.
तेषां नामाङ्कितो द्वीपः सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ।। ३५.
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम्। अनुबन्धानि रम्याणि सर्वकालर्त्तुकानि च ।। ३६.
सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः। शुकैश्च भृङ्गराजैश्च चित्रकैश्च समन्ततः ।। ३६.
जीवञ्जीवकनादैश्च हेमकानाञ्च नादितैः। मत्तकोकिलनादैश्च वल्गूनाञ्च निनादितैः ।। ३६.
सुग्रीवकाञ्चनरवैः कलविङ्करुतैस्तथा। कूजितान्तरशब्दैश्च सुरम्याणि च सर्वशः ।। ३६.
मदात्कटैर्मधुरैश्च भ्रमरैश्च महालसैः। उपगीतवनान्तानि किन्नरैश्च व्कचित् व्कचित् ।। ३६.
पुष्पवृष्टिं विमुञ्चन्ति मन्दमारुतकम्पिताः। तरवो यत्र दृश्यन्ते चारुपल्लवशोभिताः ।। ३६.
स्तबकैर्मञ्जरीभिश्च ताम्रैः किसलयैस्तथा। मन्दवातवशाल्लोलैर्दोलयद्भिर्युतानि च ।। ३६.
नानाधातुविचित्रैश्च कान्तरूपैः शिलाशतैः। शल्लैः व्कचिद्द्विजश्रेष्ठा विन्यस्तैः शोभितानि च ।। ३६.
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। सिद्धाप्सरोगणैश्चैव सेवितानि ततस्ततः ।। ३६.
मनोहराणि चत्वारि देवाक्रीडनकान्यथ। चतुर्दिशमुदाराणि नाम्ना श्रृणुत तानि मे ।। ३६.
पूर्वञ्चैत्ररथं नाम दक्षिणं नन्दनं वनम्। वैभ्राजं पश्चिमं विद्यादुत्तरं सवितुर्वनम् ।। ३६.
महावनेषु चैतेषु निविष्टानि यथाक्रमम्। अनुबन्धानि रम्याणि विहङ्गैः कूजितानि च ।। ३६.
वनैर्विस्तीर्णतीर्थानि महापुण्यावनानि च। महानागाधिवासानि सेवितानि महात्मभिः ।। ३६.
सुरसामललोयानि शिवानि सुसुखानि च। सिद्धदेवासुरवरैरुपस्पृष्टजलानि च ।। ३६.
छत्रप्रमाणैर्विकचैर्महागन्धैर्मनोहरैः। पुण्डरीकैर्महापत्रैरुत्पलैः शोभितानि च। महासरांसि चत्वारि तानि वक्ष्यामि नामतः ।। ३६.
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम्। सितोदं पश्चिमसरो महाभद्रन्तथोत्तरम् ।। ३६.
अरुणोदञ्च पूर्वेण ये च शैलास्ततः स्मृताः। तान् कीर्त्यमानांस्तत्त्वेन श्रृणुध्वं विस्तरान्मम ।। ३६.
शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः। विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ।। ३६.
महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा। वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ।। ३६.
इत्येते पर्वतवरा अन्ये च गिरयस्तथा। पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ।। ३६.
सरसो मानसस्येह दक्षिणा ये महाचलाः। ये कीर्तिता मया ते वै नामतस्तान्निबोधत ।। ३६.
शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः। कलिङ्गश्च पतङ्गश्च रुचकश्चैव सानुमान् ।। ३६.
ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः। समूलो विषधारश्च रत्नधारश्च पर्वतः ।। ३६.
एकश्रृङ्गो महामूलो गजशैलः पिशाचकः। पञ्चशैलोऽथ कैलासो हिमवंश्चाचलोत्तमः ।। ३६.
इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः। दिग्भागो दक्षिणे प्रोक्ता मेरोरमरवर्च्चसः ।। ३६.
अपरेण सितोदस्य सरसो द्विजसत्तमाः। उत्तमा ये महाशैलास्तान् प्रवक्ष्ये यथाक्रमम् ।। ३६.
सुवक्षाः शिखिशैलश्च कालो वैढूर्यपर्वतः। कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ।। ३६.
कुमुदो मधुमांश्चैव अञ्जनीमुकुटस्तथा। कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्चह ।। ३६.