पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ।। ३५.
तेषां सहस्रश्रृङ्गेषु वज्रवैढूर्यवेदिकाः। शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिताः ।। ३५.
स्रिग्धैर्नीलैर्घनैः पर्णैः सञ्झन्नविविधाश्रयाः । अनेकप्रजनोत्सेधा महापुष्पफलोपगाः ।। ३५.
यक्षगन्धर्वसेव्याश्च सेविताः सिद्धचारणैः। महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ।। ३५.
मन्दरस्य गिरेःश्रृङ्गे महावृक्षः स केतुराट्। आलम्बशाखाशिखरः कन्दरश्चैव पादपः ।। ३५.
महाकुम्भप्रमाणैस्तु पुष्पैर्विकचकेसरैः। महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ।। ३५.
सहस्रमधिकं सोऽथ गन्धेनापूरयद्दिशः। योजनानां समन्ताद्वै मन्दमारुतवीजितः ।। ३५.
वरकेतुरेव प्रथितो भद्राश्वो नाम यो द्विजाः। यत्र साक्षात् हृषीकेशः सिद्धसङ्घैर्महीयते ।। ३५.
तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानपरश्रेष्ठः स तत्र सहितः पुरा ।। ३५.
तेन चालोकितं सर्वं द्वीपं द्विपदनायकाः। यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ।। ३५.
दक्षिणस्यापि शैलस्य शिखरे देवसेविता। जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ।। ३५.
महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता। नवैः सदा पुष्पफलैः शाखाभिश्चोपशोभिता ।। ३५.
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च। फलान्यमृतकल्पानि पतन्ति गिरिमूर्द्धनि ।। ३५.
तस्माद्गिरिवरप्रस्थात् पुनः प्रस्यन्दवाहिनी। नदी जम्बूनदी नाम प्रवृत्ता मधुवाहिनी ।। ३५.
तत्र जाम्बूनदन्नाम सुवर्णं ज्वलनप्रभम्। देवालङ्कारमतुलं जायते पापनाशनम् ।। ३५.
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। यत् पिबन्त्यमृतप्रख्यं मधु जाम्भूरसस्रवम् ।। ३५.
स केतुर्दक्षिणे द्वीपे जम्भूर्लोकेषु विश्रुता। यस्या नाम्ना स विख्यातो जम्भूद्वीपः सनातनः ।। ३५.
विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः। जातः श्रृङ्गेऽतिसुमहानश्वत्थ श्चैव पादपः ।। ३५.
विलम्बिवरमालाद्यः सुवर्णमणिवेदिकः। महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ।। ३५.
कुम्भप्रमाणैः सुखदैः फलैः सर्वर्त्तुकैः शुभैः। स केतुः केतुमालानां देवगन्धर्वसेवितः ।। ३५.
केतुमालेति च यथा तस्या नाम प्रकीर्तितम्। तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ।। ३५.
क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते। महासमरसम्मर्दवृक्षक्षोभविमर्दिता ।। ३५.
सहस्राक्षेण विहिता माला तस्य सुतानिता। तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ।। ३५.
सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी। इज्यते सुमहाभागा विविधैः सिद्धचारणैः ।। ३५.
तस्य केतोः सदा माला देवदत्ता विराजते। पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ।। ३५.
ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः। केतुमाल इति ख्यातो दिवि चेह च सर्वशः ।। ३५.
स्वपार्श्वस्योत्तरे चापि श्रृङ्गे जातो महाद्रुमः । न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ।। ३५.
माल्यदामकलापैश्च विविधैर्गन्धशालिभिः। शाकाविलम्बी शुशुभे सिद्धचारणसेवितः ।। ३५.
प्रवालकुम्भसदृशैर्मधुपूर्णैः फलैः सदा। स ह्युत्तर कुरूणान्तु केतुवृक्षः प्रकाशते ।। ३५.
सनत्कुमारावरजा मानसा ब्रह्मणः सुताः। सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ।। ३५.