विहङ्गशतसंजुष्टैः कुञ्जैरनुपमैरपि। सिहशार्दूलशरभैर्नैकैश्चामरवारणैः। नानावर्णाकृतिधरैः सेविता विविधैर्नगैः ।। ३५.
सप्ताश्च हरिकृष्णाङ्गमेकैकं दशपर्वतम्। बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृताः ।। ३५.
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ। तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।। ३५.
कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ ।। ३५.
योऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः। विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः श्रृणु ।। ३५.
महापादास्तु चत्वारो मेरोरथ चतुर्द्दिशम्। यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ।। ३५.
दशयोजनसाहस्र आयामस्तेषु पठ्यते। देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः। नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ।। ३५.
नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः। मनःशिलादरीभिश्च हरितालतलैस्तथा ।। ३५.
सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः। शुद्धहिङ्गुलकप्रख्यैः काञ्चनैर्धातुमण्डितैः ।। ३५.
वरकाञ्चनचित्रैश्च प्रवालैः समलंकृताः। रुचिराः शतपर्वाणः सिद्धावासा मुदान्विताः। महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ।। ३५.
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ।। ३५.
तेषां सहस्रश्रृङ्गेषु वज्रवैढूर्यवेदिकाः। शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिताः ।। ३५.
स्रिग्धैर्नीलैर्घनैः पर्णैः सञ्झन्नविविधाश्रयाः । अनेकप्रजनोत्सेधा महापुष्पफलोपगाः ।। ३५.
यक्षगन्धर्वसेव्याश्च सेविताः सिद्धचारणैः। महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ।। ३५.
मन्दरस्य गिरेःश्रृङ्गे महावृक्षः स केतुराट्। आलम्बशाखाशिखरः कन्दरश्चैव पादपः ।। ३५.
महाकुम्भप्रमाणैस्तु पुष्पैर्विकचकेसरैः। महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ।। ३५.
सहस्रमधिकं सोऽथ गन्धेनापूरयद्दिशः। योजनानां समन्ताद्वै मन्दमारुतवीजितः ।। ३५.
वरकेतुरेव प्रथितो भद्राश्वो नाम यो द्विजाः। यत्र साक्षात् हृषीकेशः सिद्धसङ्घैर्महीयते ।। ३५.
तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानपरश्रेष्ठः स तत्र सहितः पुरा ।। ३५.
तेन चालोकितं सर्वं द्वीपं द्विपदनायकाः। यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ।। ३५.
दक्षिणस्यापि शैलस्य शिखरे देवसेविता। जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ।। ३५.
महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता। नवैः सदा पुष्पफलैः शाखाभिश्चोपशोभिता ।। ३५.
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च। फलान्यमृतकल्पानि पतन्ति गिरिमूर्द्धनि ।। ३५.
तस्माद्गिरिवरप्रस्थात् पुनः प्रस्यन्दवाहिनी। नदी जम्बूनदी नाम प्रवृत्ता मधुवाहिनी ।। ३५.
तत्र जाम्बूनदन्नाम सुवर्णं ज्वलनप्रभम्। देवालङ्कारमतुलं जायते पापनाशनम् ।। ३५.
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। यत् पिबन्त्यमृतप्रख्यं मधु जाम्भूरसस्रवम् ।। ३५.
स केतुर्दक्षिणे द्वीपे जम्भूर्लोकेषु विश्रुता। यस्या नाम्ना स विख्यातो जम्भूद्वीपः सनातनः ।। ३५.
विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः। जातः श्रृङ्गेऽतिसुमहानश्वत्थ श्चैव पादपः ।। ३५.
विलम्बिवरमालाद्यः सुवर्णमणिवेदिकः। महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ।। ३५.
कुम्भप्रमाणैः सुखदैः फलैः सर्वर्त्तुकैः शुभैः। स केतुः केतुमालानां देवगन्धर्वसेवितः ।। ३५.