गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः। इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ॥ ८.
कद्रूर्नागसहस्रं वै चरा चरमजीजनत् । अनेकशिरसां तेषां खेचराणां महात्मनाम्। बहुधानामधेयानां प्रायशस्तु निबोधत ॥ ८.
तेषां प्रधाननागाश्च शेषवासुकितक्षकाः। सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ८.
ऐरावतमहापझौ कम्बलाश्वतरावुभौ। ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ८.
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ। कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ८.
शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः । बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ८.
कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः । प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ॥ ८.
नहुषः खररोमा च मणिरित्येवमादयः। काद्रवेया मया ख्याताः खशायांस्तु निबोधत ॥ ८.
खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ। ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ॥ ८.
विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम्। चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ॥ ८.
सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम्। स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ॥ ८.
हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम्। रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ॥ ८.
गुह्यकं शितिकर्णञ्च महानन्दं महामुखम्। एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ॥ ८.
तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत। त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ॥ ८.
ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ॥ ८.
आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम्। स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शङ्कुकर्णकम् ॥ ८.
पिङ्गलोद्वृत्तनयनं जटिलं पिङ्गलं तथा। महाकर्णं महोरस्कं कटिहीनं कृशोदरम्। नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ॥ ८.
सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः। उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ। सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ॥ ८.
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत। अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ॥ ८.
न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः। अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम्। बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८.
एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ॥ ८.
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ । मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ॥ ८.
अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि । पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ॥ ८.
मातुलं भजते पुत्रः पितॄन् भजति कन्यका। यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ ८.
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम्। मातॄणां शीलदोषेण तथा शीलगुणैः पुनः। विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ८.
बलशीलादिभिस्तासामदितिर्धर्मतत्परा। धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ८.
(गन्धशीला दितिश्चैव प्रवार्ध्ययनशालिनी।) गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता। विनता तु पुनर्द्देवी वैहायसगतिप्रिया ॥ ८.
तपोमयेन शीलेन सुरभिः समलंकृता। क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ८.
दनायुषायाः शीलं वै वैरनुग्रह लक्षणम्। त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ॥ ८.
इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम्। कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा। क्षमातश्चैव भिन्नानि भावितार्थबलेन च ॥ ८.