कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम्। सहस्र शतपत्रन्तं विद्धि मेरुं नगोत्तमम् ।। ३४.
मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः। सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ।। ३४.
विमानयानैः श्रीमद्भिः शतसङ्ख्यैर्दिवौकसाम्। प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ।। ३४.
तस्य पर्वसहस्रेऽस्मिन् नानाश्रयविभूषिते। सर्वदेव निकायानि सन्निविष्टान्यनेकशः ।। ३४.
तमावसच्चोर्द्ध्वतले देवदेवश्चतुर्मुखः। ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ।। ३४.
महाभुवनसम्पूर्णैः सर्व्वैः कामफलप्रदैः । महासुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ।। ३४.
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता । नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ।। ३४.
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम्। महाविमानं संस्थाप्य महिम्ना वर्तते सदा ।। ३४.
तत्र सर्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा। तदेव तेजसां राशिर्देवानां तत्र कीर्त्त्यते ।। ३४.
तत्रास्ते श्रीपतिः श्रीमान् सहस्राक्षः पुरन्दरः। उपास्यमानस्त्रिदशैर्महायोगैः सुरर्षिभिः ।। ३४.
तत्र लोकपतेः स्थानमादित्यसमवर्चसः। महेन्द्रस्य महाराज्ञः सर्व्वसिद्धैर्नमस्कृतम् ।। ३४.
तमिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम्। दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ।। ३४.
द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्व्वदक्षिणे। नानाधातुशतश्चित्रैः सुरम्यमतितेजसम् ।। ३४.
नैकरत्नार्थिततलमनेकस्तम्भसंयुतम्। जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ।। ३४.
कूटागारैर्विनिक्षिप्तमनेकैर्भवनोत्तमैः । महाविमानं प्रथितं भास्करं जातवेदसम् ।। ३४.
सा हि तेजोवती नाम हुताशस्य महासभा। साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ।। ३४.
शिखाशतसहस्राढ्यो ज्वालामाली विभा वसुः। स्तूयते हूयते चैव तत्र सर्षिगणैः सुरैः ।। ३४.
अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते। स विभागञ्च तेजश्च सर्व एव न संशयः ।। ३४.
भोगान्तरमनुप्राप्त एकतेजो विभुः स्मृतः। पृथक्त्वञ्च हि युक्त्या तु कार्यकारणमिश्रितम् ।। ३४.
तमग्निं लोकलोकज्ञैस्तद्वीर्यैंस्तत्परा क्रमैः । महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ।। ३४.
तृतीयेऽप्यन्तरतटे एवमेव महासभा। वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ।। ३४.
तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा। नाम्ना कृष्णाङ्गना नाम विरूपाक्षस्य धीमतः ।। ३४.
पञ्चमेऽप्यन्तरतटे एवमेव महासभा। वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती। उदकाधिपतेः ख्याता वरुणस्य महात्मनः ।। ३४.
परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे। वायोर्गन्धवती नाम सभा सर्वगुणोत्तरा ।। ३४.
सप्त मेऽप्यन्तरतटे नक्षत्राधिपतेः सभा। नाम्ना महोदया नाम शुद्धवैढूर्य्यवेदिका ।। ३४.
यत्तद्वै कर्णिकामूलमिति वै सम्प्रकीर्तितम्। तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ।। ३५.
चत्वरिंशत्तथाष्टौ च सहस्राण्यत्र मण्डलम्। शैलराजावृतं रम्यं मेरुमूलमिति श्रुतिः ।। ३५.
तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः। दिक्षु सर्वासु पर्य्यन्तैर्मर्य्यादाः पर्वताः स्मृताः ।। ३५.
निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः। बहुप्रासादकटकै स्तटैश्च कुसुमोज्ज्वलैः ।। ३५.
नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः । शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः। शोभिता गिरयः सर्व्वे पुष्टै रत्न समर्पितैः ।। ३५.