महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः। ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ।। ३४.
नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते। पीतन्तु दक्षिणं तस्य शृङ्गं कृष्णं तथापरम् ।। ३४.
उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम्। मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ।। ३४.
तरुणादित्यवर्णाभो विधूम इव पावकः। चतुरशीतिसाहस्र उत्सेधेन प्रकीर्त्तितः ।। ३४.
प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु । स शरावस्थितः पूर्वं द्वात्रिंशन्मूर्ध्नि विस्तृतः ।। ३४.
विस्तारात् त्रिगुणश्चास्य परिणाहः समन्ततः। मण्डलेन प्रमाणेन त्र्यस्रेऽर्द्धन्तु तदिष्यते ।। ३४.
चत्वारिंशत्सहस्राणि योजनानां समन्ततः। अष्टाभिरधिकानि स्युस्त्र्यस्रे माने प्रकीर्त्तितम् ।। ३४.
चतुरस्रेण मानेन परिणाहः समन्ततः। चतुःषष्टिसहस्राणि योजनानां विधीयते ।। ३४.
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः। भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ।। ३४.
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजैः प्रदृश्यन्ते शुभाश्चाप्सरसाङ्गणाः ।। ३४.
स तुमेरुः परिवृतो भुवनैर्भूतभावनः। चत्वारो यस्य देशा वै नानापार्श्वेष्वधिष्ठिताः ।। ३४.
भद्राश्वो भरतश्चैव केतुमालश्च पश्चिमः। उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।। ३४.
कर्णिका तस्य पद्मस्य समन्तात्परिमण्डला। योजनानां सहस्राणि नवतिः षट् प्रकीर्त्तिताः। चत्वारश्चाप्यशीतिश्च अन्तरान्तर धिष्ठिताः ।। ३४.
त्रिशतञ्च सहस्राणि योजनानां प्रमाणतः। तस्य केशरजालानि विस्तीर्णानि समन्ततः ।। ३४.
शतसाहस्रिकायामा साशीतिपृथुलायता। चत्वारि तस्य पत्राणि योजनानां चतुर्द्दिशम् ।। ३४.
तत्र यासौ मया पूर्वं कर्णिकेत्यभिशब्दिता। तां वर्ण्यमानामेकाग्राः समासेन निबोधत ।। ३४.
शताश्रिमेनं मेनेऽत्रिः सहस्राश्रिमृषिर्भृगुः। अष्टाश्रिमेनं सावर्णिश्चतुरस्रन्तु भागुरिः ।। ३४.
वार्षायणिस्तु सामुद्रं शरावञ्चैव गालवः। ऊर्द्ध्ववेणीकृतं गार्ग्यः क्रोष्टकिः परिमण्डलम् ।। ३४.
यद्यद्यस्य हि यत्पार्श्च पर्वताधिपतेर्ऋषिः। तत्तदेवास्य वेदासौ ब्रह्मैनं वेद कृत्स्नशः ।। ३४.
मणिरत्नमयं चित्रं नानावर्णप्रभायुतम्। अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ।। ३४.
कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम्। सहस्र शतपत्रन्तं विद्धि मेरुं नगोत्तमम् ।। ३४.
मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः। सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ।। ३४.
विमानयानैः श्रीमद्भिः शतसङ्ख्यैर्दिवौकसाम्। प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ।। ३४.
तस्य पर्वसहस्रेऽस्मिन् नानाश्रयविभूषिते। सर्वदेव निकायानि सन्निविष्टान्यनेकशः ।। ३४.
तमावसच्चोर्द्ध्वतले देवदेवश्चतुर्मुखः। ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ।। ३४.
महाभुवनसम्पूर्णैः सर्व्वैः कामफलप्रदैः । महासुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ।। ३४.
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता । नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ।। ३४.
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम्। महाविमानं संस्थाप्य महिम्ना वर्तते सदा ।। ३४.
तत्र सर्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा। तदेव तेजसां राशिर्देवानां तत्र कीर्त्त्यते ।। ३४.
तत्रास्ते श्रीपतिः श्रीमान् सहस्राक्षः पुरन्दरः। उपास्यमानस्त्रिदशैर्महायोगैः सुरर्षिभिः ।। ३४.