नवतिर्द्वीवशीतिर्द्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ।। ३४.
सम्पातविषमैस्तैस्तु पर्व्वतैरावृतानि च। सन्ततानि नदीभेदैरगम्यानि परस्परम्। वसन्ति तेषु सत्वानि नाना जातीनि भागशः ।। ३४.
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्। हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् ।। ३४.
नैषधं हेमकूटन्तु हरिवर्षं तदुच्यते। हरिवर्षात्परञ्चैव मेरोश्च तदिलावृतम् ।। ३४.
इलावृतपरं नीलं रम्यकं नाम विश्रुतम्। रम्यात्परतरं श्वेतं विश्रुतन्तद्धिरण्मयम्। हिरण्मयात्परञ्चापि श्रृङ्गवांस्तु कुरुस्मृतम् ।। ३४.
धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे। दीर्घाणि तत्र चत्वारि मध्यमन्तदिलावृतम् ।। ३४.
अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम्। परं नीलवतो यच्च वेद्यर्द्धन्तु तदुत्तरम्। वेद्यर्द्धं दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ।। ३४.
तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम्। दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।। ३४.
उदगायतो महाशैलो माल्यवान् नाम पर्व्वतः। योजनानां सहस्रोरुरानीलनिषधायतः। आयामतश्वतुस्त्रिशत्सहस्राणि प्रकीर्तितः ।। ३४.
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः। आयामादथ विस्तारान् माल्यवानिति विश्रुतः ।। ३४.
परिमण्डलयोर्मध्ये मेरुरुत्तमपर्वतः । चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः। अव्यक्ता धातवः सर्व्वे समुत्पन्ना जलादयः ।। ३४.
अव्यक्तात् पृथिवी पद्मं मेरुपर्वतकर्णिकम्। चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ।। ३४.
ततः सर्व्वाः समुत्पन्ना वृत्तयो द्विजसत्तमाः। नैककल्पार्जितैः पुण्यौर्वे विधैः प्रागुपार्जितैः ।। ३४.
कृतात्मभिर्विनीतात्मा महात्मा पुरुषोत्तमः। महादेवो महायोगी जगज्ज्येष्ठो महेश्वरः । सर्वलोकगतोऽनन्तो ह्यमूर्तित्वादजायत ।। ३४.
न तस्य प्राकृती मूर्त्तिर्मांसमेदोऽस्थिसम्भवा । योगाच्चैवेश्वरत्वाच्च सर्व्वात्मागत एव सः ।। ३४.
तन्निमित्तं समुत्पन्नं लोकपद्मं सनातनम्। कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ।। ३४.
तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः। प्रजापतिपतिर्ब्रह्मा ईशानो जगतः प्रभुः ।। ३४.
तस्य बीजानि सर्गो हि पुष्करस्य यथार्थवत्। कृत्स्नः प्रजानिसर्गेण विस्तरेणेह कथ्यते ।। ३४.
यदब्जं वैष्णवं कार्य्यं ततस्तन्नाभितोऽभवत्। पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ।। ३४.
तदस्य लोकपद्मस्य विस्तरेण प्रकाशितम्। वर्णमानं विभागेन क्रमशः श्रृणुत द्विजाः ।। ३४.
महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः। ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ।। ३४.
नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते। पीतन्तु दक्षिणं तस्य शृङ्गं कृष्णं तथापरम् ।। ३४.
उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम्। मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ।। ३४.
तरुणादित्यवर्णाभो विधूम इव पावकः। चतुरशीतिसाहस्र उत्सेधेन प्रकीर्त्तितः ।। ३४.
प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु । स शरावस्थितः पूर्वं द्वात्रिंशन्मूर्ध्नि विस्तृतः ।। ३४.
विस्तारात् त्रिगुणश्चास्य परिणाहः समन्ततः। मण्डलेन प्रमाणेन त्र्यस्रेऽर्द्धन्तु तदिष्यते ।। ३४.
चत्वारिंशत्सहस्राणि योजनानां समन्ततः। अष्टाभिरधिकानि स्युस्त्र्यस्रे माने प्रकीर्त्तितम् ।। ३४.
चतुरस्रेण मानेन परिणाहः समन्ततः। चतुःषष्टिसहस्राणि योजनानां विधीयते ।। ३४.
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः। भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ।। ३४.
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजैः प्रदृश्यन्ते शुभाश्चाप्सरसाङ्गणाः ।। ३४.