द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै। न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ।। ३४.
सप्तद्वीपन्तु वक्ष्यामि चन्द्रादित्यग्रहैः सह। येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ।। ३४.
अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत्। प्रकृतिभ्यः परं यच्च तन्नित्यञ्च प्रजक्ष्यते ।। ३४.
नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा । विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ।। ३४.
शतमेकं सहस्राणां योजनानां प्रमाणतः। नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ।। ३४.
सिद्धचारणगन्धर्वपर्वतैरुपशोभितम्। सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ।। ३४.
जम्बूद्वीपः पृथुः श्रीमान् सर्व्वतः परिवारितः। नवभिश्चावृतः सर्व्वैर्भुवनैर्भूतभावनैः। लावणेन समुद्रेण सर्व्वतः परिवारितः ।। ३४.
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः। जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः। प्रागायताः सुपर्वाणः षडिमे वर्षपर्व्वताः। अवगाढा उभयतः समुद्रौ पूर्वपश्विमौ ।। ३४.
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्। तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ।। ३४.
चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्यतमः स्मृतः। प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ।। ३४.
नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः। नाभिवन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः ।। ३४.
पूर्व्वतः श्वेतवर्णोऽसौ ब्रह्मण्यस्तस्य तेन तत्। पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।। ३४.
भृङ्गपत्रनिभश्वासौ पक्ष्विमेन महाबलः। तेनास्य शूद्रता दृष्टा मेरोर्नानार्थकारणात् ।। ३४.
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः। तेनास्य क्षत्रता चस्यादिति वर्णाः प्रकीर्तिताः। व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ।। ३४.
नीलश्च वैढूर्य्यमयः श्वेतश्रृङ्गो हिरण्मयः। मयूरबर्हवर्णस्तु शातकौम्भस्तु श्रृङ्गवान् ।। ३४.
एते पर्व्वतराजानः सिद्धचारणसेविताः। तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ।। ३४.
मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः। नवैव तु सहस्राणि विस्तीर्णः पर्व्वतस्तु सः। मध्ये तस्य महामेरोर्निर्धूम इव पावकः ।। ३४.
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्। वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्व्वताः। द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रयात् ।। ३४.
जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते। योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ।। ३४.
नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे। श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः ।। ३४.
नवतिर्द्वीवशीतिर्द्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ।। ३४.
सम्पातविषमैस्तैस्तु पर्व्वतैरावृतानि च। सन्ततानि नदीभेदैरगम्यानि परस्परम्। वसन्ति तेषु सत्वानि नाना जातीनि भागशः ।। ३४.
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्। हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् ।। ३४.
नैषधं हेमकूटन्तु हरिवर्षं तदुच्यते। हरिवर्षात्परञ्चैव मेरोश्च तदिलावृतम् ।। ३४.
इलावृतपरं नीलं रम्यकं नाम विश्रुतम्। रम्यात्परतरं श्वेतं विश्रुतन्तद्धिरण्मयम्। हिरण्मयात्परञ्चापि श्रृङ्गवांस्तु कुरुस्मृतम् ।। ३४.
धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे। दीर्घाणि तत्र चत्वारि मध्यमन्तदिलावृतम् ।। ३४.
अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम्। परं नीलवतो यच्च वेद्यर्द्धन्तु तदुत्तरम्। वेद्यर्द्धं दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ।। ३४.
तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम्। दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।। ३४.
उदगायतो महाशैलो माल्यवान् नाम पर्व्वतः। योजनानां सहस्रोरुरानीलनिषधायतः। आयामतश्वतुस्त्रिशत्सहस्राणि प्रकीर्तितः ।। ३४.
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः। आयामादथ विस्तारान् माल्यवानिति विश्रुतः ।। ३४.