ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः। सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ।। ३३.
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्। तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ।। ३३.
भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः। बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत्। पुत्र संक्रामितश्रीको वनं राजा विवेश सः ।। ३३.
तेजसस्तु सुतश्चापि प्रजापतिरमित्रजित्। तैजसस्यात्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ।। ३३.
परमेष्ठी सुतश्चाथ निधने तस्य शोभनः । प्रतीहारकुले तस्य नाम्ना जज्ञे तदन्वयात्। प्रतिहर्त्तेति विख्यातो जज्ञे तस्यापि धीमतः ।। ३३.
उन्नेता प्रतिहर्त्तुस्तु भुवस्तस्य सुतः स्मृतः । उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ।। ३३.
प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः । पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ।। ३३.
गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट्। विराट्सुतो महावीर्यो दीमांस्तस्य सुतोऽभवत् ।। ३३.
धीमतश्च महान् पुत्रो महतश्चापि भौवनः। भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चात्मजः ।। ३३.
अरिजस्य रजः पुत्रः शतजिद्रजसो मतः। तस्य पुत्रशतं त्वासीद्राजानः सर्व एव ते ।। ३३.
विश्वज्योतिः प्रधानायैस्तैरिमा वर्द्धिताः प्रजाः। तैरिदं भारतं वर्षं सप्तखण्डं कृतं पुरा ।। ३३.
तेषां वंशप्रकूतैस्तु भुक्तेयं भारती धरा। कृतत्रेतादियुक्तानि युगाख्यान्येकसप्ततिः ।। ३३.
येऽतीतास्तैर्युगैः सार्द्धं राजानस्ते तदन्वयाः। स्वायम्भुवेऽन्तरे पूर्वं शतशोऽथ सहस्रशः ।। ३३.
एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत्। ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ।। ३३.
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तैषां सृष्टिरियं लोके युगैः सह विवर्त्तते ।। ३३.
एवं प्रजासन्निवेशं श्रुत्वा च ऋषिपुङ्गवः। पप्रच्छ निपुणः सूतं पृथिव्यायाम विस्तरौ ।। ३४.
कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभोः। कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ।। ३४.
महाभूतप्रमाणञ्च लोका लोकौ तथैव च। पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा। एतत् प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ।। ३४.
अत ऊर्द्ध्वं प्रवक्ष्यामि पृथिव्यायामविस्तरम्। सङ्ख्याश्चैव समुद्राणां द्वीपानाञ्चैव विस्तरम् ।। ३४.
यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः। महाभूतप्रमाणञ्च लोकालोकौ तथैव च। पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा ।। ३४.
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै। न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ।। ३४.
सप्तद्वीपन्तु वक्ष्यामि चन्द्रादित्यग्रहैः सह। येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ।। ३४.
अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत्। प्रकृतिभ्यः परं यच्च तन्नित्यञ्च प्रजक्ष्यते ।। ३४.
नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा । विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ।। ३४.
शतमेकं सहस्राणां योजनानां प्रमाणतः। नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ।। ३४.
सिद्धचारणगन्धर्वपर्वतैरुपशोभितम्। सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ।। ३४.
जम्बूद्वीपः पृथुः श्रीमान् सर्व्वतः परिवारितः। नवभिश्चावृतः सर्व्वैर्भुवनैर्भूतभावनैः। लावणेन समुद्रेण सर्व्वतः परिवारितः ।। ३४.
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः। जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः। प्रागायताः सुपर्वाणः षडिमे वर्षपर्व्वताः। अवगाढा उभयतः समुद्रौ पूर्वपश्विमौ ।। ३४.
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्। तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ।। ३४.
चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्यतमः स्मृतः। प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ।। ३४.