नाभेस्तु दक्षिणं वर्षं हिमाद्वन्तु पिता ददौ । हेम कूटं तु यद्वर्षं ददौ किम्पुरुषाय तत् ।। ३३.
नैषधं यत् स्मृतं वर्षं हरिवर्षाय तद्ददौ। मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ।। ३३.
नीलन्तु यत् स्मृतं वर्षं रम्यायैतत् पिता ददौ । श्वेतं यदुत्तरं तस्मात् पित्रा दत्तं हरिन्मते ।। ३३.
यदुत्तरं श्रृङ्गवतो वर्ष तत् कुरवे ददौ । वर्षं माल्यवत श्चापि भद्राश्वाय न्यवेदयत् ।। ३३.
गन्धमादनवर्षन्तु केतुमाले न्यवेदयत्। इत्येतानि महान्तीह नववर्षाणि भागशः ।। ३३.
आग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत। यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ।। ३३.
इत्येतैः सप्भिः कृत्स्नाः सप्तद्वीपा निवेशिताः । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु ।। ३३.
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु। तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ।। ३३.
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः । न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ।। ३३.
नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तन्निबोधत। नाभिस्त्वजनयत् पुत्रं मेऱुदेव्यां महाद्युतिः। ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ।। ३३.
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः। सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ।। ३३.
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्। तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ।। ३३.
भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः। बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत्। पुत्र संक्रामितश्रीको वनं राजा विवेश सः ।। ३३.
तेजसस्तु सुतश्चापि प्रजापतिरमित्रजित्। तैजसस्यात्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ।। ३३.
परमेष्ठी सुतश्चाथ निधने तस्य शोभनः । प्रतीहारकुले तस्य नाम्ना जज्ञे तदन्वयात्। प्रतिहर्त्तेति विख्यातो जज्ञे तस्यापि धीमतः ।। ३३.
उन्नेता प्रतिहर्त्तुस्तु भुवस्तस्य सुतः स्मृतः । उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ।। ३३.
प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः । पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ।। ३३.
गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट्। विराट्सुतो महावीर्यो दीमांस्तस्य सुतोऽभवत् ।। ३३.
धीमतश्च महान् पुत्रो महतश्चापि भौवनः। भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चात्मजः ।। ३३.
अरिजस्य रजः पुत्रः शतजिद्रजसो मतः। तस्य पुत्रशतं त्वासीद्राजानः सर्व एव ते ।। ३३.
विश्वज्योतिः प्रधानायैस्तैरिमा वर्द्धिताः प्रजाः। तैरिदं भारतं वर्षं सप्तखण्डं कृतं पुरा ।। ३३.
तेषां वंशप्रकूतैस्तु भुक्तेयं भारती धरा। कृतत्रेतादियुक्तानि युगाख्यान्येकसप्ततिः ।। ३३.
येऽतीतास्तैर्युगैः सार्द्धं राजानस्ते तदन्वयाः। स्वायम्भुवेऽन्तरे पूर्वं शतशोऽथ सहस्रशः ।। ३३.
एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत्। ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ।। ३३.
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तैषां सृष्टिरियं लोके युगैः सह विवर्त्तते ।। ३३.
एवं प्रजासन्निवेशं श्रुत्वा च ऋषिपुङ्गवः। पप्रच्छ निपुणः सूतं पृथिव्यायाम विस्तरौ ।। ३४.
कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभोः। कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ।। ३४.
महाभूतप्रमाणञ्च लोका लोकौ तथैव च। पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा। एतत् प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ।। ३४.
अत ऊर्द्ध्वं प्रवक्ष्यामि पृथिव्यायामविस्तरम्। सङ्ख्याश्चैव समुद्राणां द्वीपानाञ्चैव विस्तरम् ।। ३४.
यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः। महाभूतप्रमाणञ्च लोकालोकौ तथैव च। पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा ।। ३४.