ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः। वेगवन्त्यस्त्वरिष्टाया ऊर्ज्जायाश्चाग्निसम्भवाः ॥ ८.
आयुष्मन्त्यश्च सूर्यस्य रश्मिजाताः सुभा स्वराः। वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥ ८.
वायूत्पन्ना मुदा नाम भूमिजाता भवास्तु वै । विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ॥ ८.
शोभयन्त्यः कामगुणा गणाः प्रोक्ताश्चतुर्द्दश। सेन्द्रोपेन्द्रैः सुरगणैः रूपातिशयनिर्मिताः ॥ ८.
शुभरूपा महाभागा दिव्या नारी तिलोत्तमा। ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती। रूपयौवनसम्पन्ना उत्पन्ना लोकविश्रुता ॥ ८.
वे दीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः। नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ८.
तथा यमस्य दुहिता रूपयौवनशालिनी। वरहेमविभा हेमा देवनारी सुलोचना ॥ ८.
इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः। देवतानामृषीणाञ्च पत्न्यस्ता मातरश्च ह ॥ ८.
सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः। सम्प्रयोगे तु कान्तेन माद्यन्ति मदिरां विना। तासामाप्यायते स्पर्शादानन्दश्च विवर्द्धते ॥ ८.
पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः। पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ॥ तयोर्यवीयसी चैव तृतीयारन्धती स्मृता। देवरुख्यो सूर्यजन्म तस्मिन्नारदपर्वतौ॥(पाठभेदः) विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह। षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ८.
गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः। इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ॥ ८.
कद्रूर्नागसहस्रं वै चरा चरमजीजनत् । अनेकशिरसां तेषां खेचराणां महात्मनाम्। बहुधानामधेयानां प्रायशस्तु निबोधत ॥ ८.
तेषां प्रधाननागाश्च शेषवासुकितक्षकाः। सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ८.
ऐरावतमहापझौ कम्बलाश्वतरावुभौ। ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ८.
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ। कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ८.
शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः । बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ८.
कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः । प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ॥ ८.
नहुषः खररोमा च मणिरित्येवमादयः। काद्रवेया मया ख्याताः खशायांस्तु निबोधत ॥ ८.
खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ। ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ॥ ८.
विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम्। चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ॥ ८.
सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम्। स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ॥ ८.
हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम्। रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ॥ ८.
गुह्यकं शितिकर्णञ्च महानन्दं महामुखम्। एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ॥ ८.
तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत। त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ॥ ८.
ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ॥ ८.
आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम्। स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शङ्कुकर्णकम् ॥ ८.
पिङ्गलोद्वृत्तनयनं जटिलं पिङ्गलं तथा। महाकर्णं महोरस्कं कटिहीनं कृशोदरम्। नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ॥ ८.
सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः। उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ। सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ॥ ८.
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत। अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ॥ ८.
न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः। अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम्। बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८.