जम्बूद्वीपेश्वरं चक्रे अग्नीध्रन्तु महाबलम्। प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ।। ३३.
शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान्। ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ।। ३३.
द्युतिमन्तञ्च राजानं क्रौज्चद्वीपे समादिशत्। शाकद्वीपेश्वरञ्चापि हव्यञ्चक्रे प्रियव्रतः ।। ३३.
पुष्कराधिपतिञ्चापि सवनं कृतवान् प्रभुः। पुष्करे सवनस्यापि महावीतः सुतोऽभवत्। धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरो ।। ३३.
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः। नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ।। ३३.
हव्यो व्यजनयत् पुत्रान् शाकद्वीपेश्वरान् प्रभुः। जलदञ्च कुमारञ्च सुकुमारं मणीचकम्। वसुमोदं सुमोदाकं सप्तमञ्च महाद्रुमम् ।। ३३.
जलदं जलदस्याथ वर्षं प्रथममुच्यते। कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ।। ३३.
सुकुमारं तृतीयन्तु सुकुमारस्य कीर्तितम्। मणीचकस्य चतुर्थं मणीचकमिहोच्यते ।। ३३.
वसुमोदस्य वै वर्षं पञ्चमं वसुमोदकम्। मोदाकस्य तु मोदाकं वर्षं षष्ठं प्रकीर्तितम् ।। ३३.
महाद्रुमस्य नाम्ना तु सप्तमन्तु महाद्रुमम्। एषान्तु मानभिस्तानि सप्तवर्षाणि तत्र वै ।। ३३.
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै। कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः। मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ।। ३३.
तेषां स्वनामभिर्द्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः। उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः ।। ३३.
अन्धकारकदेशस्तु अन्धकारश्च कीर्त्त्यते। मुनेस्तु मुनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः। एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ।। ३३.
ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः। उद्भिदो वेणुमांश्चैव स्वैरथो लवणो धृतिः। षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ।। ३३.
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्। तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् ।। ३३.
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्। सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ।। ३३.
तेषां द्वीपाः कुशद्वीपे तत्सनामान एव तु। आश्रमाचारयुक्ताभिः प्रजाभिः समलंकृताः ।। ३३.
शाल्मलस्येश्वराः सप्त पुत्रास्ते तु वपुष्मतः। श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा। वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ।। ३३.
श्वेतस्य श्वेतदेशस्तु रोहितस्य च रोहितः। जीमूतस्य च जीमूतो हरितस्य च हारितः ।। ३३.
वैद्युतो वैद्युतस्यापि मानसस्यापि मानसः। सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ।। ३३.
सप्तद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम्। सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ।। ३३.
ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै। तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः। आनन्दश्च ध्रुवश्चैव क्षेमकश्च शिवस्तथा ।। ३३.
तानि तेषां सनामानि सप्तवर्षाणि भागशः। निवेशितानि तैस्तानि पूर्वे स्वायम्भुवेऽन्तरे ।। ३३.
मेधातिथेस्तु पुत्रैस्तैः सप्तद्वीपनिवासिभिः। वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ।। ३३.
प्लक्षद्वीपादिकेष्वेव शाकद्वीपान्तरेषु वै। ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ।। ३३.
सुखमायुश्च रूपञ्च बलं धर्मश्च नित्यशः। पञ्चस्वेतेषु द्वीपेषु सर्वं साधारणं स्मृतम् ।। ३३.
सप्तद्वीपपरिक्रान्तं जम्बूद्वीपं निबोधत। आग्नीध्रं ज्येष्ठदायादं कन्यापुत्रं महाबलम्। प्रियव्रतोऽभ्यषिञ्चत्तं जम्बूद्वीपेश्वरं नृपम् ।। ३३.
तस्य पुत्रा बभूवुर्हि प्रजापतिसमौजसः। ज्येष्ठो नाभि रिति ख्यातस्तस्य किम्पुरुषोऽनुजः ।। ३३.
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः। रम्यः स्यात्पञ्चमः पुत्रो हरिन्मान् षष्ठ उच्यते ।। ३३.
कुरुस्तु सप्तमस्तेषां भद्राश्वो ह्यष्टमः स्मृतः। नवमः केतुमालस्तु तेषां देशान्निबोधत ।। ३३.