ऐडमिक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबन्धास्तु तक्षान्ये क्षत्रिया भुवि ।। ३२.
ऐडवंशेऽथ सम्भूता यथा चेक्ष्वाकवो नृपाः। तेभ्य एव शतं पूर्णं कुलानामभिषेचितम् ।। ३२.
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भोजन्तु त्रिशतं क्षत्रं चतुर्द्धा तद्यथादिशम् ।। ३२.
तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत। शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ।। ३२.
धार्त्तराष्ट्रास्त्वेकशतं अशीतिर्जनमेजयाः। शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ।। ३२.
ततः शतन्तु पौलानां शतं काशिकुशादयः । तथापरं सहस्रन्तु येऽतीताः शशबिन्दवः। इजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ।। ३२.
एवं संक्षेपतः प्रोक्ता न शक्या विस्तरेण तु। वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युकैःसह ।। ३२.
एते ययातिवंशस्य बभूवुर्वंशवर्द्धनाः। कीर्तिता द्युतिमन्तस्ते ये लोकान् धारयन्ति वै ।। ३२.
लभन्ते च वरान् पञ्च दुर्लभान् ब्रह्मलौकिकान् । आयुः पुत्रा धनं कीर्तिरैश्वर्यं भूतिरेव च ।। ३२.
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम्। तथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ।। ३२.
चत्वार्याहुः सहस्राणि वर्षाणां च कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ३२.
कृते वै प्रक्रियापादश्चतुःसाहस्र उच्यते। तस्माच्चतुःशतं सन्ध्या सन्ध्यांशश्च यथाविधः ।। ३२.
त्रेतादीनि सहस्राणि संख्यया मुनिभिः सह। तस्यापि त्रिशती सन्ध्या सन्ध्यांशस्त्रिशतः स्मृतः ।। ३२.
अनुषङ्गपादस्त्रेतायास्त्रिसाहस्रस्तु सङ्ख्यया। द्वापरे द्वे सहस्रे तु वर्षाणां सम्प्रकीर्तितम् ।। ३२.
तस्यापि द्विशती सन्ध्या सन्ध्यांशो द्विशतस्तथा। उपोद्वातस्तृतीयस्तु द्वापरे पाद उच्यते ।। ३२.
कलिं वर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः। तस्यापि शतिका सन्ध्या सन्ध्यांशः शतमेव च ।। ३२.
संहारपादः संख्यातश्वतुर्थो वै कलौ युगे। ससन्ध्यानि सहांशानि चत्वारि तु युगानि वै ।। ३२.
एतद् द्वादशसाहस्रं चतुर्युगमिति स्मृतम्। एवं पादैः सहस्राणि श्लोकानां पञ्च पञ्च च ।। ३२.
सन्ध्यासन्ध्यांशकैरेव द्वे सहस्रे तथाऽपरे। एवं द्वादशसाहस्रं पुराणं कवयो विदुः ।। ३२.
यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम्। यथा युगं चतुष्पादं विधात्रा विहितं स्वयम्। छचतुष्पादं सुराणान्तु ब्रह्मणा विहितं पुरा ।। ३२.
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह। तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ।। ३३.
देवाश्च विविधा ये च तस्मिन् मन्वन्तरेऽधिपाः। ऋषयो मानवाश्चैव सर्वे तुल्याभिमानिनः ।। ३३.
महर्षिसर्गः प्रोक्तो वै वंशं स्वायम्भुवस्य तु। विस्तरेणानुपूर्व्या च कीर्त्त्यमानं निबोधत ।। ३३.
मनोः स्वायम्भुवस्यासन् दश पौत्रास्तु तत्समाः. यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ।। ३३.
ससमुद्राकरवती प्रतिवर्षन्निवेशिता। स्वायम्भुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ।। ३३.
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु। प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ।। ३३.
प्रियव्रतात् प्रजावन्तः वीरात् कन्या व्यजायत। कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः ।। ३३.
कन्ये द्वे शतपुत्रांश्च सम्राट् कुक्षिश्च ते उभे। तर्योर्वै भ्रातरः शूराः प्रजापतिसमा दश ।। ३३.
अग्नीध्रश्चवपुष्मांश्च मेधा मेधातिथिर्विभुः। ज्योतिष्मान् द्युतिमान् हव्यः सवनः सर्व एव च ।। ३३.
प्रियव्रतोऽभिषिच्यैतान् सप्त सप्तसु पार्थिवान्। द्वीपेषु तेषु धर्मेण द्वीपांस्तांश्च निबोधत ।। ३३.