तदा भव्यश्च पूज्यश्च भविष्यामि सुरोत्तमाः। तस्माद्भयं न कार्यं च कलिं प्राप्य महौजसः ।। ३२.
एवमुक्ता स्ततः सर्वा देवता ऋषिभिः सह। प्रणम्य शिरसा देवं पुनरूचुर्जगत्पतिम् ।। ३२.
महातेजा महाकायो महावीर्यो महाद्युतिः। भीषणः सर्वभूतानां कथं कालश्चतुर्मुखः ।। ३२.
एष कालश्चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्मुखः। लोकसंरक्षणार्थाय अतिक्रामति सर्वशः ।। ३२.
नासाध्यं विद्यते चास्य सर्वस्मिन् सचराचरे। कालः सृजति भूतानि पुनःसंहरति क्रमात् ।। ३२.
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे। तस्मात्तु सर्वभूतानि कालः कलयते सदा ।। ३२.
विक्रमस्य पदान्यस्य पूर्वोक्तान्येकसप्ततिः। तानि मन्वन्तराणीह परिवृत्तयुगक्रमात् ।। ३२.
एकं पदं परिक्रम्य पदानामेकसप्ततिः। यदा कालः प्रक्रमते तदा मन्वन्तरक्षयः ।। ३२.
एवमुक्त्वा तु भगवान् देवर्षिपितृदानवान्। नमस्कृतश्च तैः सर्वैस्तत्रैवान्तरधीयत ।। ३२.
एवं स काले भगवान् देवर्षिपितृदानवान्। पुनः पुनः संहरते सृजते च पुनः पुनः ।। ३२.
अतो मन्वन्तरे चैव देवर्षिपितृदानवैः। पूज्यते भगवानीशो भयात् कालस्य तस्य वै ।। ३२.
तस्मात् सर्वप्रयत्नेन कलौ कुर्यात्तपो द्विजः। प्रपन्नस्य महादेवं तस्य पुण्यफलं महत्। तस्माद्देवा दिवं गत्वा अवतीर्य च भूतले ।। ३२.
ऋषयश्चैव देवाश्च कलिम्प्राप्य सुदारुणम्। तप इच्छन्ति भूयिष्ठं कर्त्तुं धर्मपरायणाः। अवतारान् कलिं प्राप्य करोति च पुनः पुनः ।। ३२.
एवं कालान्तरे सर्वे येऽतीता वै सहस्रशः। वैवस्वतेऽन्तरे तस्मिन् देवराजर्षयस्तथा ।। ३२.
देवापिः पोरवो राजा मनुश्वेक्ष्वाकुवंशजाः। महायोगबलोपेताः कालान्तरमुपासते ।।३२.
क्षीणे कलियुगे तस्मिस्तिष्ये त्रेतायुगे कृते। सप्तर्षिभिश्चैव सार्द्धं भाव्ये त्रेतायुगे पुनः गोत्राणां क्षत्रियाणाञ्च भविष्यास्ते प्रकीर्तिताः ।। ३२.
द्वापरान्ते प्रतिष्ठन्ते क्षत्रिया ऋषिभिः सह। कृते त्रेतायुगे चैव तथा क्षीणे च द्वापरे। नराः पातकिनो ये वै वर्त्तन्ते ते कलौ स्मृताः ।। ३२.
मन्वन्तराणां सप्तानां सान्तानार्था श्रुतिः स्मृतिः। एवमेतेषु सर्वेषु युगक्षयक्रमस्तथा ।। ३२.
परस्परं युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः। यथा वै प्रकृतिस्तेभ्यः प्रवृत्तानां यथा क्षयम् ।। ३२.
जामदग्न्येन रामेण क्षत्रे निरवशोषिते। क्रियन्ते कुलटाः सर्वाः क्षत्रियैर्वसुधाधिपैः। दिवं गतानहं तुभ्यं कीर्त्तयिष्ये निबोधत ।। ३२.
ऐडमिक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबन्धास्तु तक्षान्ये क्षत्रिया भुवि ।। ३२.
ऐडवंशेऽथ सम्भूता यथा चेक्ष्वाकवो नृपाः। तेभ्य एव शतं पूर्णं कुलानामभिषेचितम् ।। ३२.
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भोजन्तु त्रिशतं क्षत्रं चतुर्द्धा तद्यथादिशम् ।। ३२.
तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत। शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ।। ३२.
धार्त्तराष्ट्रास्त्वेकशतं अशीतिर्जनमेजयाः। शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ।। ३२.
ततः शतन्तु पौलानां शतं काशिकुशादयः । तथापरं सहस्रन्तु येऽतीताः शशबिन्दवः। इजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ।। ३२.
एवं संक्षेपतः प्रोक्ता न शक्या विस्तरेण तु। वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युकैःसह ।। ३२.
एते ययातिवंशस्य बभूवुर्वंशवर्द्धनाः। कीर्तिता द्युतिमन्तस्ते ये लोकान् धारयन्ति वै ।। ३२.
लभन्ते च वरान् पञ्च दुर्लभान् ब्रह्मलौकिकान् । आयुः पुत्रा धनं कीर्तिरैश्वर्यं भूतिरेव च ।। ३२.
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम्। तथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ।। ३२.