६२.८० अहो स्य तपसो वीर्यमहो श्रुतमहो हुतम्। स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् । ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः
ध्रुवात्पुष्टिञ्च भव्यञ्च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः
सत्याभिव्याहृते तस्य सद्यः स्त्री साभवत्तदा । दिव्यसंहन नाच्छाया दिव्याभरणभूषिता
छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकञ्च वृकलं धृतिम्
पत्नी प्राचीनगर्भस्य भूवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि
संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् । रिपुं रिपुञ्जयं जज्ञे वराङ्गी सा दिवञ्जयात्
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । व्यजीजनत् पुष्करिण्यां वारुण्यां चाक्षुणो मनुम् । प्रजापतेरात्मजायामारण्यस्य महात्मनः
मनोरजायन्त दशनद्वलायां शुभाः सुताः । कन्यायां वै महाभाग वैराजस्य प्रजापतेः
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव । अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥२.१.
६२.९० ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम्
अङ्गात सुनीथापत्यं वै वेनमेकं व्यजायत । अपचारेण वेनस्य प्रकोपः सुमहानभूत्
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् । वेनस्य पाणौ मथिते सम्बभूव महान्नृपः । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव । पृथुर्वैन्यः सर्वलोकान् ररक्ष क्षत्रपूर्वजः
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता । प्रजानां वृत्तिकामानां देवैऋषिगणैः सह
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः । सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा
तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा । प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत्
ऋषय ऊचुः॥ विस्तरेण पृथोर्जन्म कीर्त्तयस्व महा मते । यथा महात्मना दुग्धा पूर्वं तेन वसुन्धरा
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह । यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥२.१.
६२.१०० तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च । तथा वत्सविशेषांश्च तन्नः प्रब्रूहि पृच्छताम्
यस्मिंश्च कारणे पाणिर्वेनस्य मथितः पुरा । क्रुद्धैर्महर्षिभिः पूर्वं तत् सर्वं कथयस्व नः
वर्णयिष्यामि वो विप्राः पृथोर्वैन्यस्य सम्भवम् । एकाग्राः प्रयताश्चैव शूश्रूषध्वं द्विजोत्तमाः
नाशुचेर्नापि पापाय नाशिष्यायाहिताय च । वर्णयेयमिमं पुण्यं नाव्रताय कथञ्चन
स्वर्ग्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् । रहस्यमृषिभिः प्रोक्तं श्रृणुयाद्योऽनसूयकः
यश्चेमं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य सम्भवम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् । गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः । यस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिक स्तथा
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः । स मातामहदोषेण वेनः कालात्मजात्मजः
स धर्मं पृष्ठतः कृत्वा कामाल्लोभे व्यवर्त्तत । स्थापनं स्थापयामास धर्मापेतं स पार्थिवः
वेदशास्त्राण्यतिक्रम्य ह्यधर्मे निरतोऽभवत् । निःस्वाध्यायवषट्काराः प्रजा स्तस्मिन् प्रशासति । आसन्न च पपुः सोमं हुतं यज्ञेषु देवताः ॥२.१.