रुद्राविष्टो भगवता जगत्यस्मिन् स्वतेजसा। आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ।। ३१.
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्। द्वितीयं भद्रसंयोगं सन्ततस्यैककारकम् ।। ३१.
देवत्वञ्च पितृत्वञ्च कालत्वञ्चास्य यत्परम्। तस्माद्वै सर्वथा भद्रस्तद्वद्भिरभिपूज्यते ।। ३१.
पतिः पतीनां भगवान् प्रजेशानां प्रजापतिः। भवनः सर्वभूतानां सर्वेषां नीललोहितः। ओषधीः प्रतिसन्धत्ते रुद्रः क्षीणाः पुनः पुनः ।। ३१.
इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः। बहुत्वात् परिसङ्ख्यातुं पुत्रपौत्रमनन्तकम् ।। ३१..
इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम्। कीर्त्तयन् स्थिरकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ।। ३१.
अत ऊर्द्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्वयम्। ओङ्कारमक्षरं ब्रह्म त्रिवर्णञ्चादितः स्मृतम् ।। ३२.
यो यो यस्य यथा वर्णो विहितो देवतास्तथा। ऋचो यजूंषि सामानि वायुरग्निस्तथा जलम् ।। ३२.
तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे। चतुर्द्दश महात्मानो देवानां ये तु दैवताः ।। ३२.
तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् । अनुग्रहाय लोकानामादिमध्यान्त उच्यते ।। ३२.
सप्तर्षयस्तथेन्द्रा ये देवाश्च पितृभिः सह। अक्षरान्निः सृताः सर्वे देवदेवान्महेश्वरात् ।। ३२.
इहामुत्र हितार्थाय वदन्ति परमं पदम्। पूर्वमेव मयोक्तस्ते कालस्तु युगसंज्ञितः ।। ३२.
कृतं त्रेता द्वापरञ्च युगादिः कलिना सह। परिवर्त्तमानैस्तैरेव भ्रममाणेषु चक्रवत् ।। ३२.
देवतास्तु तदोद्विग्नाः कालस्य वशमागताः. न शक्नुवन्ति तन्मानं संस्स्थापयितुमात्मना ।। ३२.
तदा ते वाग्यता भूत्वा आदौ मन्वन्तरस्य वै। ऋषयश्चैव देवाश्च इन्द्रश्चैव महातपाः ।। ३२.
समाधाय मनस्तीव्रं सहस्रं परिवत्सरान्। प्रपन्नास्ते महादेवं भीताः कालस्य वै तदा ।। ३२.
अयं हि कालो देवेशश्चतुर्मूर्तिश्चतुर्मुखः । कोऽस्य विद्यान्महादेव अगाधस्य महेश्वर ।। ३२.
अथ दृष्ट्वा महादेवस्तं तु कालञ्चतुर्मुखम्। न भेतव्यमिति प्राह को वः कामः प्रदीयताम् ।। ३२.
तत्करिष्याम्यहं सर्वं न वृथायं परिश्रमः । उवाच देवो भगवान् स्वयङ्कालः सुदुर्जयः ।। ३२.
यदेतस्य मुखं श्वेतं चतुर्जिह्वं हि लक्ष्यते। एतत् कृतयुगं नाम तस्य कालस्य वै मुखम्। असौ देवः सुरश्रेष्ठो ब्रह्मा वैवस्वतो मुखः ।। ३२.
यदेतद्रक्तवर्णाभं तृतीयं वः स्मृतं मया । त्रिजिह्वं लेलिहानं तु एतत् त्रेतायुगं द्विजाः ।। ३२.
अत्र यज्ञप्रवृत्तिस्तु जायते हि महेश्वरात्। ततोऽत्र इज्यते यज्ञस्तिस्रो जिह्वास्त्रयोऽग्नयः । इष्ट्वा चैवाग्नयो विप्राः कालजिह्वा प्रवर्त्तते ।। ३२.
यदेतद्वै मुखं भीमं द्विजिह्वं रक्तपिङ्गलम्। द्विपादोऽत्र भविष्यामि द्वापरं नाम तद्युगम् ।। ३२.
यदेतत् कृष्णवर्णाभं तुरीयं रक्तलोचनम्। एकजिह्वं पृथुश्यामं लेलिहानं पुनः पुनः ।। ३२.
ततः कलियुगं घोरं सर्वलोकभयङ्करम्। कल्पस्य तु मुखं ह्येतच्चतुर्थं नाम भीषणम् ।। ३२.
न मुखं नापि निर्वाणं तस्मिन् भवति वै युगे। कालग्रस्ता प्रजा चापि युगे तस्मिन् भविष्यति ।। ३२.
ब्रह्मा कृतयुगे पूज्यस्त्रेतायां यज्ञ इच्यते। द्वापरे पूज्यते विष्णुरहम्पूज्यश्चतुर्ष्वपि ।। ३२.
ब्रह्मा विष्णुश्च यज्ञश्च कालस्यैव कलास्त्रयः। सर्वेष्वेव हि कालेषु चतुर्मूर्तिर्महेश्वरः ।। ३२.
अहं जनो जनयिता (वः) कालः कालप्रवर्त्तकः। युगकर्ता तथा चैव परं परपरायणः ।। ३२.
तस्मात् कलियुगं प्राप्य लोकानां हितकारणात्। अभयार्थञ्च देवानामुभयोर्लोकयोरपि ।। ३२.