वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः। एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ।। ३१.
आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः। प्रभवश्चात्य यश्चैव भूतानां तेन भास्करः ।। ३१.
ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः। सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ।। ३१.
आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः। अवेक्षणाणः सततं बिभर्ति जगदंशुभिः ।। ३१.
तिथीनां पर्वसन्धीनां पूर्णिमादर्शयोरपि। योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ।। ३१.
तस्मात् स पितृमान् सोम ऋग्यजुश्छन्दआत्मकः। प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ।। ३१.
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्त्तकः। प्राणापानसमानानां वायूनाञ्च प्रवर्त्तकः ।। ३१.
पञ्चानाञ्चेन्द्रियमनोबुद्धिस्मृति जलात्मनाम्। समानकालकरणः क्रियाः सम्पादयन्निव ।। ३१.
सर्वात्मा सर्वलोकानामावहः प्रवहादिभिः। विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ।। ३१.
योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः। वायुः प्रजापिर्भूतं लोकात्मा प्रपितामहः ।। ३१.
प्रजापति मुखैर्देवैः सम्यगिष्टफलार्थिभिः। त्रिभिरेव कपालैस्तु अम्बकैरोषधिक्षये। इज्यते भगवान् यस्मात्तस्मात् त्र्यम्बक उच्यते ।। ३१.
गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता। त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ।। ३१.
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः। त्रिसाधनपुरोडाशस्त्रि कपालः स वै स्मृतः ।। ३१.
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः। यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः। सैकं षट्कं विजज्ञेऽथ मध्वादीनृतवःकिल ।। ३१.
ऋतुपुत्रार्त्तवः पञ्च इति सर्गः समासतः। इत्येष पवमानो वै प्राणिनां जीवितानि तु ।। ३१.
नदी वेगसमायुक्तं कालो धावति संहरन्। अहोरात्रकरस्तस्मात् स वायुरभवत्पुनः ।। ३१.
एते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् । पितरः सर्व लोकानां लोकात्मानः प्रकीर्तिताः ।। ३१.
ध्यायतो ब्रह्मणो वक्रादुद्यन् समभवद्भवः। ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ।। ३१.
ईश्वरः सर्वभूतानां प्रणवायोपपद्यते। आत्मवेशेन भूतानामङ्गप्रत्यङ्गसम्भवः ।। ३१.
अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च। युगाभिमानी कालात्मा नित्यं संक्षेपकृद्विभुः। उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यते ।। ३१.
रुद्राविष्टो भगवता जगत्यस्मिन् स्वतेजसा। आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ।। ३१.
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्। द्वितीयं भद्रसंयोगं सन्ततस्यैककारकम् ।। ३१.
देवत्वञ्च पितृत्वञ्च कालत्वञ्चास्य यत्परम्। तस्माद्वै सर्वथा भद्रस्तद्वद्भिरभिपूज्यते ।। ३१.
पतिः पतीनां भगवान् प्रजेशानां प्रजापतिः। भवनः सर्वभूतानां सर्वेषां नीललोहितः। ओषधीः प्रतिसन्धत्ते रुद्रः क्षीणाः पुनः पुनः ।। ३१.
इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः। बहुत्वात् परिसङ्ख्यातुं पुत्रपौत्रमनन्तकम् ।। ३१..
इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम्। कीर्त्तयन् स्थिरकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ।। ३१.
अत ऊर्द्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्वयम्। ओङ्कारमक्षरं ब्रह्म त्रिवर्णञ्चादितः स्मृतम् ।। ३२.
यो यो यस्य यथा वर्णो विहितो देवतास्तथा। ऋचो यजूंषि सामानि वायुरग्निस्तथा जलम् ।। ३२.
तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे। चतुर्द्दश महात्मानो देवानां ये तु दैवताः ।। ३२.
तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् । अनुग्रहाय लोकानामादिमध्यान्त उच्यते ।। ३२.