यदुर्ययातिर्द्वौ देवौ दीधयः स्रवसो मतिः। विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ।। ३१.
वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः। केवलो विश्वरूपश्च सुपक्षो मधुपस्तथा ।। ३१.
तुरीयो निर्हपुश्चैव युक्तो ग्रावाजिनस्तु ते। यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि ।। ३१.
अजिरो विभुर्विभावश्च मृलिकोऽथ दिदेहकः। श्रुतिश्रृणो बृहच्छुक्रो देवा द्वादश कीर्तिताः ।। ३१.
आसन् स्वायम्भुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ।। ३१.
तेषामिन्द्रः सदा ह्यासीद्विश्वभुक् प्रथमो विभुः। असुरा येतदा तेषामासन् दायादबान्धवाः ।। ३१.
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ ते पितृभिः सार्द्धं नासत्या देवयोनयः ।। ३१.
स्वायम्भुवेऽन्तरेऽतीताः प्रजास्त्वासां सहस्रशः। प्रभावरूपसम्पन्ना आयुषा च बलेन च ।। ३१.
विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह। स्वायम्भुवो निसर्गश्च विज्ञेयः साम्प्रतं मनुः ।। ३१.
अतीते वर्त्तमानेन दृष्टो वैवस्वतेन सः। प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह ।। ३१.
तेषां सप्तर्षयः पूर्वमासन्ये तान् निबोधत। भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।। ३१.
अत्रिश्चैव वसिष्ठश्च सप्त स्वायम्भुवेऽन्तरे। अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वसुः ।। ३१.
ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च ३१.
वायुप्रोक्ता महासत्त्वा राजानः प्रथमेऽन्तरे। सासुरन्तत्सगन्धर्वं सयक्षोरगराक्षसम्। सपिशाचमनुष्यञ्च सुपर्णाप्सरसाङ्गणम् ।। ३१.
नो शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि। बहुत्वान्नामधेयानां सङ्ख्या तेषां कुले तथा ।। ३१.
या वै व्रजकुलाख्यास्तु आसन् स्वायम्बुवेऽन्तरे। कालेन बहुनातीता अयनाब्दयुगक्रमैः ।। ३१.
क एष भगवान् कालः सर्वभूतापहारकः। कस्य योनिः किमादिश्च किन्तत्त्वं स किमात्मजः ।। ३१.
किमस्य चक्षुः का मूर्तिः के चास्यावयवाः स्मृताः। किंनामधेयः कोऽस्यात्मा एतत् प्रब्रूहि पृच्छताम् ।। ३१.
श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम्। सूर्ययोनिर्निमेषादिः सङ्ख्याचक्षुः स उच्यते ।। ३१.
मूर्त्तिरस्य त्वहोरात्रे निमेषावयवश्च सः। संवत्सरशतं त्वस्य नाम चास्य कलात्मकम्। साम्प्रतानागतातीतकालात्मा स प्रजापतिः ।। ३१.
पञ्चानां प्रविभक्तानां कालावस्थां निभोधत। दिनार्द्धमासमासैस्तु ऋतुभिस्त्वयनैस्तथा ।। ३१.
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।। ३१.
वत्सरः पञ्चमस्तेषां कालः स युगसंज्ञितः। तेषान्तु तत्त्वं वक्ष्यामि कीर्त्त्यमानं निबोधत ।। ३१.
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। आदित्ये यस्त्वसौ सारः कालाग्निः परिवत्सरः ।। ३१.
शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः। स इडावत्सरः सोमः पुराणे निश्चयो मतः ।। ३१.
यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः। आशुकर्त्ता च लोकस्य सवायुरिति वत्सरः ।। ३१.
अहङ्कारात् रुदन् रुद्रः सद्भूतो ब्रह्मणस्त्रयः। स रुद्रो वत्सरस्तेषां विजज्ञे नीललोहितः। तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ।। ३१.
अङ्गप्रत्यङ्गसंयोगात् कालात्मा प्रपितामहः। ऋक्साम यजुषां योनिः पञ्चानां पतिरीश्वरः ।। ३१.
सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः। प्रोक्तः संवत्सरश्चेति सूर्यो योऽग्निर्मनीषिभिः ।। ३१.
यस्मात् कालविभागानां मासर्त्वयनयोरपि। ग्रहनक्षत्रशीतोष्णवर्षायुःकर्मणां तथा। योजितः प्रविभागानां दिवसानाञ्च भास्करः ।। ३१.