यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः। तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ।। ३०.
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः। स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।। ३०.
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः। राजकार्यनियुक्तो वा मुच्यते महतो भयात् ।। ३०.
अनेन चैव देहेन गणानां स गणाधिपः। इह लोके सुखं प्राप्य गण एवोपपद्यते ।। ३०.
न च यक्षाः पिशाचा वा न नागा न विनायकाः। कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ।। ३०.
श्रृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी। पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ।। ३०.
श्रृणुयाद्वा इदं सर्व कीर्त्तयेद्वाप्यभीक्ष्णशः। तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ।। ३०.
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम्। सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ।। ३०.
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु। बलिं विभवतः कृत्वा दमेन नियमेन च ।। ३०.
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम्। ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः। मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ।। ३०.
सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः। पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते। मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ।। ३०.
वृषेव विधियुक्तेन विमानेन विराजते। आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ।। ३०.
इत्याह भगवान् व्यासः पराशरसुतः प्रभुः । नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ।। ३०.
श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः। वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ।। ३०.
श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु। रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ।। ३०.
इत्येषा समनुज्ञाता कथा पापप्रणाशिनी। या दक्षमधिकृत्येह कथा शर्वादुपागता ।। ३१.
पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता। पितॄणामानुपूर्व्येण देवान् वक्ष्याम्यतः परम् ।। ३१.
त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे । देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ।। ३१.
अजिता ब्रह्मणः पुत्रा जिता जिदजिताश्च ये। पुत्राः स्वायम्भुवस्यैते शुक्रनाम्ना मानसाः ।। ३१.
तृप्तिमन्तो गणा ह्येते देवानान्तु त्रयः स्मृताः । छन्दोगास्तु त्रयस्त्रिंशत्सर्वे स्वायम्भुवस्य ह ।। ३१.
यदुर्ययातिर्द्वौ देवौ दीधयः स्रवसो मतिः। विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ।। ३१.
वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः। केवलो विश्वरूपश्च सुपक्षो मधुपस्तथा ।। ३१.
तुरीयो निर्हपुश्चैव युक्तो ग्रावाजिनस्तु ते। यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि ।। ३१.
अजिरो विभुर्विभावश्च मृलिकोऽथ दिदेहकः। श्रुतिश्रृणो बृहच्छुक्रो देवा द्वादश कीर्तिताः ।। ३१.
आसन् स्वायम्भुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ।। ३१.
तेषामिन्द्रः सदा ह्यासीद्विश्वभुक् प्रथमो विभुः। असुरा येतदा तेषामासन् दायादबान्धवाः ।। ३१.
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ ते पितृभिः सार्द्धं नासत्या देवयोनयः ।। ३१.
स्वायम्भुवेऽन्तरेऽतीताः प्रजास्त्वासां सहस्रशः। प्रभावरूपसम्पन्ना आयुषा च बलेन च ।। ३१.
विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह। स्वायम्भुवो निसर्गश्च विज्ञेयः साम्प्रतं मनुः ।। ३१.
अतीते वर्त्तमानेन दृष्टो वैवस्वतेन सः। प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह ।। ३१.