स्तुत्वैवं स महादेवं विरराम प्रजापातिः। भगवानपि सुप्रीतः पुनर्दक्षमभाषत ।। ३०.
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत। बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ।। ३०.
अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः। कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ।। ३०.
दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति। अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ।। ३०.
भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत। प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः श्रृणु ।। ३०.
अश्वमेधसहस्रस्य वाजपेयशतस्य च। प्रजापते मत्प्रसादात् फलभागी भविष्यसि ।। ३०.
वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः। तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ।। ३०.
अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम्। वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ।। ३०.
श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम्। सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम्। उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ।। ३०.
अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम्। तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ।। ३०.
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः। अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ।। ३०.
अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः। ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा। शान्त्यर्थं सर्वभूतानां श्रृणुध्वं तत्र वै द्विजाः ।। ३०.
शीर्षाभितापो नागानां पर्वतानां शिलारुजः। अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ।। ३०.
शौरकः सौरभेयाणामूषरः पृथिवीतले । इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ।। ३०.
रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम्। नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ।। ३०.
अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्। शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः। शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ।। ३०.
मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः। मरणे जन्मनि तथा मध्ये च विशते सदा ।। ३०.
एतन्माहेश्वरं तेजौ ज्वरो नाम सुदारुणः। नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ।। ३०.
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः । विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ।। ३०.
दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः श्रृणोति वा। नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ।। ३०.
यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः। तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ।। ३०.
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः। स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।। ३०.
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः। राजकार्यनियुक्तो वा मुच्यते महतो भयात् ।। ३०.
अनेन चैव देहेन गणानां स गणाधिपः। इह लोके सुखं प्राप्य गण एवोपपद्यते ।। ३०.
न च यक्षाः पिशाचा वा न नागा न विनायकाः। कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ।। ३०.
श्रृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी। पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ।। ३०.
श्रृणुयाद्वा इदं सर्व कीर्त्तयेद्वाप्यभीक्ष्णशः। तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ।। ३०.
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम्। सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ।। ३०.
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु। बलिं विभवतः कृत्वा दमेन नियमेन च ।। ३०.
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम्। ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः। मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ।। ३०.