तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ।। ३०.
भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः। ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ।। ३०.
ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते। कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ।। ३०.
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः। चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ।। ३०.
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्महा महादण्डो दण्डधारो रणप्रियः ।। ३०.
गोतमोगोप्रतारश्च गोवृषेश्चरवाहनः। धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ।। ३०.
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च। तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ।। ३०.
दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः। दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ।। ३०.
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट्। आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ।। ३०.
सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ।। ३०.
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः। विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ।। ३०.
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः। वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ।। ३०.
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः। चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः। अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ।। ३०.
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च। माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ।। ३०.
या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम्। ताभिर्णां सततं रक्ष पिता पुत्रमिवौरसम् ।। ३०.
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ३०.
यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः। तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ।। ३०.
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।। ३०.
सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते। यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ।। ३०.
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि । ग्रसत्यर्कञ्च स्वर्भानुर्भुत्वा सोमाग्निरेव च ।। ३०.
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्। रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ।। ३०.
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये। तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ।। ३०.
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च। हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ।। ३०.
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च। वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ।। ३०.
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च। चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ।। ३०.
रसातलगता ये च ये च तस्मात्परङ्गताः। नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः। सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ।। ३०.
सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान्। सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ।। ३०.
त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः। त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ।। ३०.
अथ वा मायया देव मोहितः सूक्ष्मया त्वया। एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ।। ३०.
प्रसीद मम देवेश त्वमेव शरणं मम। त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ।। ३०.