उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज। चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ।। ३०.
त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि। अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ।। ३०.
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च। त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ।। ३०.२२६ . चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च। त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ।। ३०.
सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः। ऋक्सामनि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ।। ३०.
हविर्हावी हवो हावी हुवां वाचाहुतिः सदा। गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ।। ३०.
यजुर्मयो ऋङ्मयस्व सामाथर्वमयस्तथा। पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ।। ३०.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये। त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ।। ३०.
संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च। कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ।। ३०.
वृषाणां ककुदं त्वं हिगिरीणां शिखराणि च। सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ।। ३०.
क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च। वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ।। ३०.
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः। व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ।। ३०.
त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा । छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ।। ३०.
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव । इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ।। ३०.
लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः। द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ।। ३०.
आदिश्वान्तश्च मध्यश्च गायत्र्योङ्कार एव च। हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ।। ३०.
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा। सुवर्णरेता विख्यातः सुवर्ण श्चाप्यतो मतः ।। ३०.
सुवर्णनामा च तथा सुवर्णप्रिय एव च। त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ।। ३०.
उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च। होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ।। ३०.
सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम्। पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ।। ३०.
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च। सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ।। ३०.
प्राणोऽपानः सामानश्च उदानो व्यान एव च। उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ।। ३०.
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः। सुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ।। ३०.
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः। मत्स्यो जली जलो जल्य जवः कालः कली कलः ।। ३०.
विकालश्च सुकालश्च दुष्कालः कलनाशनः। मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ।। ३०.
संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ। घटो घटीको घण्टीको चूडालोलबलो बलम् ।। ३०.
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक्। चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ।। ३०.
चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह। क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ।। ३०.
रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः। शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ।। ३०.
भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः। गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ।। ३०.
तरणस्ता रकश्चैव सर्वभूतसुतारणः। धाता विधाता सत्वानां निधाता धारणो धरः ।। ३०.