वरगन्धमाल्यवस्त्राय वरातिवरये नमः । नमो वर्षाय वाताय छायायै आतपाय च ।। ३०.
नमो रक्तविरक्ताय शोभनायाक्षमालिने। सम्भिन्नाय विभान्नाय विविक्तविकटाय च ।। ३०.
अघोररूपरूपाय घोरघोरतराय च । नमः शिवाय शान्ताय नमः शान्ततराय च ।। ३०.
एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते। नमो वृद्धाय लुब्धाय संविभागप्रियाय च ।। ३०.
पञ्चमालार्चिताङ्गाय नमः पाशुपताय च। नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ।। ३०.
सहसशतघण्टाय घण्टामालाप्रियाय च। प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ।। ३०.
हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च। नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ।। ३०.
गर्भमांसश्रृगालाय तारकाय तराय च । नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ।। ३०.
यज्ञवाहाय दानाय तप्याय तपनाय च। नमस्तटाय भव्याय तडितां पतये नमः ।। ३०.
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च। नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ।। ३०.
सहस्रोद्यतशूलाय सहस्रनयनाय च। नमोऽस्तु बालरूपाय बालरूपधराय च ।। ३०.
बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च। नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ।। ३०.
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः। नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ।। ३०.
वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने। मनो घोषाय घोष्याय नमः कलकलाय च ।। ३०.
श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च । धर्मार्थ काममोक्षाय क्रथाय कथनाय च ।। ३०.
साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः। नमोरथ्यविरथ्याय चतुष्पथरताय च ।। ३०.
कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने। ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते। अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ।। ३०.
काम कामद कामध्न धृष्टोदृप्तनिषूदन। सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ।। ३०.
महाबाल महाबाहो महासत्त्व महाद्युते। महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ।। ३०.
स्थूलजीर्णणाङ्गजटिने वल्कलाजिनधारिणे। दीप्तशूर्याग्निजटिने वल्कलाजिनवाससे। सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ।। ३०.
उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज। चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ।। ३०.
त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि। अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ।। ३०.
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च। त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ।। ३०.२२६ . चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च। त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ।। ३०.
सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः। ऋक्सामनि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ।। ३०.
हविर्हावी हवो हावी हुवां वाचाहुतिः सदा। गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ।। ३०.
यजुर्मयो ऋङ्मयस्व सामाथर्वमयस्तथा। पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ।। ३०.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये। त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ।। ३०.
संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च। कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ।। ३०.
वृषाणां ककुदं त्वं हिगिरीणां शिखराणि च। सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ।। ३०.
क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च। वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ।। ३०.