विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना। उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ ८.
तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम्। नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ॥ ८.
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा। चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ॥ ८.
महाविद्यावदातानां विक्रान्तानां तपस्विनाम्। इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ ८.
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना। उत्पादिता विश्रवसा विद्याचरणगोचराः ॥ ८.
शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः। एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ॥ ८.
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्। लोके गणशतान्येव विद्याघरविचेष्टितात् ॥ ८.
अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना। उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ॥ ८.
समुद्रः सेनः कालिन्दो महानेत्रो महाबलः। सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ८.
इत्येवमादिर्हि गणः किन्नराणां महात्मनाम्। हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ॥ ८.
तथासमुत्थितेनैव विक्रान्तेन महात्मना। उत्पादिता नरमुखाः किन्नराः शांशपायनाः ॥ ८.
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान्। रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुम महाद्रुमौ ॥ ८.
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशाश्च किन्नराः। इत्येते किन्नराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ८.
नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः। लोके गणशतान्येव किन्नराणां महात्मनाम् ॥ ८.
यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी। दुहीता सुरविन्देति प्रकाशा सिद्धसम्मता ॥ ८.
उपायाकेतनस्याहि स्वयमुत्पादितो गणः । करालकेन भूतानां तेषां नामानि मे श्रृणु ॥ ८.
भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः। इत्येवमादिर्हि गणो भूमिगोचरकः स्मृतः ॥ ८.
विज्ञेय इह लोकेऽस्मिन् भूतानां भूतनायकः। ये उत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम्। वृक्षाग्रमात्रमाकाशं ते चरन्ति न संशयः ॥ ८.
तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया। देवोपस्थाननिरता विज्ञेयास्ते यशस्विनः ॥ ८.
नारायणं सुरगुरुं विरजं पुष्करेक्षणम्। हिरण्यगर्भञ्च तथा चतुर्वक्त्रं स्वयम्भुवम् ॥ ८.
शङ्करञ्च महादेवमीशानञ्च जगत्प्रभुम्। इन्द्रपूर्वांस्तथा दित्यान् रुद्रांश्च वसुभिः सह ॥ ८.
उपतस्थुः सगन्धर्वा नृत्त्यगीतविशारदाः। त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ८.
हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हुहूः। चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ८.
षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः। इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ८.
सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः। अनवद्यामनवशामन्वतां मदनप्रियाम्। अरूषां सुभगां भासी मरिष्टाऽष्टौ व्यजायत ॥ ८.
मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे। पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ८.
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला। घृतस्थला घृताची च विश्वाची पूर्वचीत्यपि। प्रम्लोचेत्यभिविख्यातानुम्लोचन्ती तथैव च ॥ ८.
अनादिनिधनस्याथ जज्ञे नारायणस्य या। ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ८.
मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः । सर्वाश्च ब्रह्म वादिन्यो महायोगाश्च ताः स्मृताः ॥ ८.
गणा अप्सरसाङ्ख्याताः पुण्यास्ते वै चतुर्द्दश। आहूताः शोभयन्तश्च गणा ह्येते चतुर्द्दश ॥ ८.