कर्णिकारस्रजं दीप्तं क्रोधादुद्भ्रान्तलोचनम्। व्कचिन्नृत्यति चित्राङ्गं व्कचिद्वदति सुस्वरम् ।। ३०.
व्कचिद्ध्यायति युक्तात्मा व्कचित्स्तूलं प्रमार्जति। व्कचिद्गायति विश्वात्मा व्कचिद्रौति मुहुर्मुहुः ।। ३०.
ज्ञानं वैराग्यमैश्वर्य्यं तपः सत्यं क्षमा धृतिः। प्रभुत्वमात्मसंबोधो ह्यधिष्ठानगुणैर्युतः ।। ३०.
जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः। आज्ञापय त्वं देवेश किं कार्य्यं करवाणि ते ।। ३०.
तमुवाचाक्षिप मखं दक्षस्येह महेश्वरः। देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः। प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ।। ३०.
ततो बन्धात् प्रमुक्तेन सिंहेनेवेह लीलया। देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ।। ३०.
मन्युना च महाभीमा भद्रकाली महेश्वरी। आत्मनः सर्वसाक्षित्वे तेन सार्द्ध सहानुगा ।। ३०.
स एष भगवान् क्रुद्धः प्रेतावासकृतालयः। वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ।। ३०.
सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान्। रुद्रानुगा महावीर्य्या रुद्रवीर्यपराक्रमाः ।। ३०.
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः। ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ।। ३०.
ततः किलकिलाशब्द आकाशं पूरयन्निव। तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः।। ३०.
पर्वताश्च व्यशीर्यन्त कम्पते च वसुन्धरा। मेरुश्च घूर्णते विप्राः क्षुभ्यन्ते वरुणालयाः ।। ३०.
अग्नयो नैव दीप्यन्ते न च दीप्यन्ति भास्कराः। ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।। ३०.
ऋषयो नाभ्यभाषन्त न देवा न च दानवाः। एवं हि तिमिरीभूतं निर्द्दहन्ति विमानिताः ।। ३०.
सिंहनादं प्रमुञ्चन्ते घोररूपा महाबलाः। प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ।। ३०.
प्रमर्द्दन्ति तथा चान्ये विनृत्यन्ति तताऽपरे। आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ।। ३०.
चूर्णन्ते यज्ञपात्राणि यागस्यायतनानि च। शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ।। ३०.
दिव्यान्नपानभक्षाणां राशयः पर्वतोपमाः। क्षीर नद्यस्तथा चान्या घृतपायसकर्दमाः. मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ।। ३०.
षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः। उच्चावचानि मांसानि भक्ष्याणि विविधानि च ।। ३०.
यानि कानि च दिव्यानि लेह्यञ्चोष्यं तथापरे। भुञ्जते विविधैर्वक्त्रैर्विलुण्ठन्ति च सर्वसः। क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ।। ३०.
रुद्रकोपप्रयुक्तास्तु सर्वदेवैः सुरक्षितम्। तं यज्ञमहनन् शीघ्रं रुद्रकल्पाः समीपतः ।। ३०.
चक्रुरन्ये तथा नादान् सर्वभूतभयंकरान्। छित्त्वा शिरोऽन्ये यज्ञस्य विनदन्ति भयङ्कराः ।। ३०.
दक्षो दक्षपतिश्चैव देवो यज्ञपतिस्तथा। मृगरूपेण चाकाशे प्रपलायितुमारभत् ।। ३०.
वीरभद्रोऽप्रमेयात्मा ज्ञात्वा तस्य बलन्तदा। अन्तरिक्षगतस्याशु चिच्छेदास्य शिरो महान् ।। ३०.
दक्षः प्रजापतिश्चैव विनष्ट भ्रान्तचेतनः। क्रुद्धेन वीरभद्रेण शिरः पादेन पीडितः। जराभिभूततीव्रात्मा निपपात महीतले ।। ३०.
त्रयस्त्रिंशद्देवतानां ताः कोटयो विमलात्मकाः। पाशेनाग्निबलेनाशु बद्धाः सिंहबलेन च ।। ३०.
ततो जग्मुर्महात्मानं सर्वे देवा महाबलम्। प्रसीद भगवन् रुद्र बृत्यानां मा कुधः प्रभो ।। ३०.
ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः। ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ।। ३०.
न च देवो न चादित्यो न च भोक्तुमिहागतः। नैवद्रष्टुं हि देवेन्द्रान्न च कौतूहलान्वितः ।। ३०.
दक्षयज्ञविनाशार्थं सम्प्राप्तं विद्धि मामिह। वीरभद्र इति ख्यातं रुद्रकोपाद्विनिर्गतम् ।। ३०.