शङ्खचक्रगदापाणिं दीप्तकार्मुकधारिणम्। परश्वसिधरं देवं महारौद्रं भयावहम् ।। ३०.
घोर रूपेण दीप्यन्तं चन्द्रार्धकृतभूषणम्। वसानं चर्म वैयाघ्रं महारुधिरनिःस्रवम् ।। ३०.
दंष्ट्राकरालं विभ्रान्तं महावक्त्रं महोदरम्। विद्युज्जिह्वं प्रलम्बोष्ठं लम्बकर्णं दुरासदम् ।। ३०.
कुलिशोद्योतितकरम्भाभिर्ज्वलितमूर्द्धजम्। ज्वालामालापरिक्षिप्तं मुक्तादामविभूषितम् ।। ३०.
तेजसा चैव दीप्यन्तं युगान्तमिव पावकम्। आकर्णदारितास्यान्तञ्चतुर्दिक्षु भयानकम् ।। ३०.
महाबलं महातेजं महापुरुषमीश्वरम्। विश्वहर्तृमहा कायं महान्यग्रोधमण्डलम्। युगपच्चन्द्रशतवद्दीप्यन्तं मन्मथाग्निवत् ।। ३०.
चतुर्महास्यं सिततीक्ष्णदंष्ट्रं महोग्रतेजोबलकौतुकाढयम्। युगान्तसूर्य्याग्निसहस्रभासं सहस्रचन्द्रामलकान्तिकान्तम्। प्रदीप्तसर्वौषधिमन्दराभं सुमेरुकैलासहिमाद्रितुल्यम् ।। ३०.
युगार्काभं महावीर्य्यं चारुनासं महाननम्। प्रचण्डगण्डं दीप्ताक्षमग्निज्वालाविलाननम् ।। ३०.
मृगेन्द्रकृत्तिवसनं महाभुजगवेष्टितम्। उष्णीषिणं चन्द्रधरं व्कचिदुग्रं व्कचित्समम् ।। ३०.
नानाकुसुममूर्द्धानं नानागन्दानुलेपनम् । नानारत्नविचित्राङ्गं नानाभरणभूषितम् ।। ३०.
कर्णिकारस्रजं दीप्तं क्रोधादुद्भ्रान्तलोचनम्। व्कचिन्नृत्यति चित्राङ्गं व्कचिद्वदति सुस्वरम् ।। ३०.
व्कचिद्ध्यायति युक्तात्मा व्कचित्स्तूलं प्रमार्जति। व्कचिद्गायति विश्वात्मा व्कचिद्रौति मुहुर्मुहुः ।। ३०.
ज्ञानं वैराग्यमैश्वर्य्यं तपः सत्यं क्षमा धृतिः। प्रभुत्वमात्मसंबोधो ह्यधिष्ठानगुणैर्युतः ।। ३०.
जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः। आज्ञापय त्वं देवेश किं कार्य्यं करवाणि ते ।। ३०.
तमुवाचाक्षिप मखं दक्षस्येह महेश्वरः। देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः। प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ।। ३०.
ततो बन्धात् प्रमुक्तेन सिंहेनेवेह लीलया। देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ।। ३०.
मन्युना च महाभीमा भद्रकाली महेश्वरी। आत्मनः सर्वसाक्षित्वे तेन सार्द्ध सहानुगा ।। ३०.
स एष भगवान् क्रुद्धः प्रेतावासकृतालयः। वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ।। ३०.
सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान्। रुद्रानुगा महावीर्य्या रुद्रवीर्यपराक्रमाः ।। ३०.
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः। ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ।। ३०.
ततः किलकिलाशब्द आकाशं पूरयन्निव। तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः।। ३०.
पर्वताश्च व्यशीर्यन्त कम्पते च वसुन्धरा। मेरुश्च घूर्णते विप्राः क्षुभ्यन्ते वरुणालयाः ।। ३०.
अग्नयो नैव दीप्यन्ते न च दीप्यन्ति भास्कराः। ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।। ३०.
ऋषयो नाभ्यभाषन्त न देवा न च दानवाः। एवं हि तिमिरीभूतं निर्द्दहन्ति विमानिताः ।। ३०.
सिंहनादं प्रमुञ्चन्ते घोररूपा महाबलाः। प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ।। ३०.
प्रमर्द्दन्ति तथा चान्ये विनृत्यन्ति तताऽपरे। आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ।। ३०.
चूर्णन्ते यज्ञपात्राणि यागस्यायतनानि च। शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ।। ३०.
दिव्यान्नपानभक्षाणां राशयः पर्वतोपमाः। क्षीर नद्यस्तथा चान्या घृतपायसकर्दमाः. मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ।। ३०.
षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः। उच्चावचानि मांसानि भक्ष्याणि विविधानि च ।। ३०.
यानि कानि च दिव्यानि लेह्यञ्चोष्यं तथापरे। भुञ्जते विविधैर्वक्त्रैर्विलुण्ठन्ति च सर्वसः। क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ।। ३०.