पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमारभत्। गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ।। ३०.
ततस्तस्य मखे देवाः शतक्रतुपुरोगमाः। गमनाय समागम्य बुद्धिमापेदिरे तदा ।। ३०.
स्वैर्विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः। देवस्यानुमनेऽगच्छन् गङ्गाद्वार इति श्रुतिः ।। ३०.
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम्। ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ।। ३०.
पृथिव्यामन्तरिक्षे वा ये च स्वर्लोकवासिनः। सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ।। ३०.
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः। जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ।। ३०.
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा। अश्विनौ पितरश्चैव आगता ब्रह्मणा सह ।। ३०.
एते चान्ये च बहवो भूतग्रामास्तथैव च। जरायुजाण्डजाश्चैव स्वेदजोद्भिज्जकास्तथा ।। ३०.
आहूता मन्त्रतः सर्वे देवाश्च सह पत्निभिः। विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।। ३०.
तान् दष्ट्वा मन्युमाविष्टो दधीचो वाक्यमब्रवीत्। अपूज्यपूजने चैव पूज्यानां चाप्यपूजने। नरः पापमवाप्नोति महद्वै नात्र संशयः ।। ३०.
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत। पूज्यन्तु पशुभर्त्तारं कस्मान्नाह्वयसे प्रभुम् ।। ३०.
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः। एकादशावस्थगता नान्यं वेझि महेश्वरम् ।। ३०.
सर्वे निमन्त्रिता देवा येन ईशो निमन्त्रितः। यथाहं शङ्करादूर्द्ध्वं नान्यं पश्यामि दैवतम्। तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ।। ३०.
एतन्मखे शूर सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम्। विष्णोर्नयाम्यप्रतिमस्य सर्वं प्रभोर्विभो ह्याहवनीयनित्यम् ।। ३०.
गतास्तु देवता ज्ञात्वा शैलराजसुता तदा। उवाच वचनं साध्वी देवं पशुपतिं तदा ।। ३०.
भगवन् व्क गता ह्येते देवा- शक्रपुरोगमाः । बूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ।। ३०.
दक्षो नाम महाभागो प्रजानां पतिरूत्तमः। हयमेधेन यजते तत्र यान्ति दिवौकसः ।। ३०.
यज्ञमेतं महाभाग किमर्थं न गतोऽसि वै। केन वा प्रतिषेधेन गमनं प्रतिषिध्यते ।। ३०.
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्। यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ।। ३०.
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि। न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धीमतः ।। ३०.
भगवन् सर्वदेवेषु प्रभावानधिको गुणैः । अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ।। ३०.
अनेन तु महाभाग प्रतिषेधेन नामतः । अतीव दुःखमापन्ना वेपथुश्च ममानघ ।। ३०.
किं नाम दानं नियमन्तपो वा कुर्य्यामहं येन पतिर्ममाद्य। लभेत भागं भगवानचिन्त्यो यज्ञस्य चार्द्धं त्वथ वा तृतीयम् ।। ३०.
एवं ब्रुवाणां भगवानचिन्त्यः पत्नीं प्रहृष्टः क्षुभितामुवाच। न वेत्सि देवेशि कृशोदराङ्गि किं नाम युक्तं वचनन्तवेदम् ।। ३०.
अहं हि जानामि विशालनेत्रे ध्यानेन सर्वं हि वदन्ति सन्तः। न वाद्य मोहेन महेन्द्रदेवो लोकत्रयं सर्वथा संप्रमूढम् ।। ३०.
मामध्वरे शंसितारः स्तुवन्ति रथन्तरे साम गायन्ति गेयम्। मां ब्राह्मणा ब्रह्मसत्रे यजन्ते माध्वर्य्यवः कल्पयन्ते च भागम् ।। ३०.
अप्राकृतोऽपि भगवान् सर्वस्त्रीजनसंसदि। स्तौति गोपा यते वापि स्वमात्मानं न संशयः ।। ३०.
नात्मानं स्तौमि देवेशि पश्य त्वमुपगच्छ च। यं स्रक्ष्यामि वरारोहे भागार्थं वरवर्णिनि ।। ३०.
एवमुक्त्वा तु भगवान् पत्नीं प्राणैरपि प्रियाम्। सोऽसृजद्भगवान्वक्राद्भूतं क्रोधाग्निसन्निभम् ।। ३०.
सहस्रशीर्षं देवञ्च सहस्रचरणे क्षणम्। सहस्रमुद्गरधरं सहस्रशरपाणिनम् ।। ३०.