हुत्वाहुतिं ततः क्रूरः अपस्त्यक्ष्यन्ति कर्मसु। इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ।। ३०.
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते। तमहं धारयिष्यामि निदेशात् परमेष्ठिनः ।। ३०.
अस्यां क्षितौ वृता लोकाः सर्वे तिष्ठन्ति भास्कराः। तानहं धारयामीह सततं न तवाज्ञया ।। ३०.
चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते। नाहं तैः सह भोक्ष्यामि ततो दास्यन्ति ते पृथक्। ततो देवैः स तैः सार्द्धं नेज्यते पृथगिज्यते ।। ३०.
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा। स्वायम्भुवेऽन्तरे त्यक्त्वा उत्पन्नो मानुषेष्विह ।। ३०.
ज्ञात्वा गृहपतिं दक्षं ज्ञानानामीश्वरं प्रभुम्। दक्षो नाम महायज्ञैः सोऽयजद्दैवतैः सह ।। ३०.
अथ देवी सती या तु प्राप्ते वैवस्वतेऽन्तरे। मैनायां तामुमां देवीं जनयामास शैलराट् ।। ३०.
सा तु देवी सती पूर्वं ततः पश्चादुमाऽभवत्। सह व्रता भवस्यैषा न तया मुच्यते भवः। यावदिच्छति संस्थातुं प्रभुर्मन्वन्तरेष्विह ।। ३०.
मारीचं कश्यपं देवी यथाहितिरनुव्रता। साध्यं नारायणं श्रीस्तु मघवन्तं शची यथा ।। ३०.
विष्णुं कीर्ती रुचिः सूर्यं वसिष्ठञ्चाप्यरून्धती। नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कथंचन। आवर्त्तमानकल्पेषु पुनर्जायन्ति तैः सह ।। ३०.
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे। प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ।। ३०.
दशभ्यस्तु प्रचेतोभ्यो मार्षायाञ्च पुनर्नृपः। जज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ।। ३०.
भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः। आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह। देवस्य महतो यज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ।। ३०.
इति सानुशयोऽह्यासीत्तयोर्जात्यन्तरागतः। प्रजापतेस्तु दक्षस्य त्र्यम्बकस्य च धीमतः ।। ३०.
तस्मान्नानुशयः कार्यो वैरिष्विह कदाचन। जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः। जन्तुं न मुञ्चति ख्यातिस्तत्र कार्यं विजानता ।। ३०.
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे। विनाशामगमत् सूत हयमेधः प्रजापतेः ।। ३०.
देव्या मृत्युं कृतं मत्वा क्रुद्धं सर्वात्मकं प्रभुम्। कथं प्रसादयद्दक्षः स यज्ञः साधितः कथम्। एतद्वेदितुमिच्छामस्तन्नो ब्रूहि यथातथम् ।। ३०.
पूरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यविश्रुतम्। ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ।। ३०.
अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम्। तस्मिन् देवो गिरिश्रेष्ठे सर्वधातु विभूषिते। पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ।। ३०.
शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत्। आधित्याश्च महात्मानो वसवश्चामितौजसः ।। ३०.
तथैव च महात्मानावश्विनौ भिषजां वरौ। तथा वैश्रवणो राजा गुह्यकैः परिवारितः ।। ३०.
यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः। उपासते महात्मानं उशना च महामुनिः. सनत्कुमारप्रमुखास्ते चैव परमर्षयः ।। ३०.
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे। विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ।। ३०.
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः। ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ।। ३०.
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमा स्तथा। तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ।। ३०.
महादेवं पशुपतिं पर्युपासन्ति तत्र वै। भूतानि च तथान्यानि नानारूपधराण्यथ ।। ३०.
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः। बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ।। ३०.
देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः। नन्दीश्वरश्च भगवान् देवस्यानुम ते स्थितः ।। ३०.
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा। गङ्गा च सरितां श्वेष्ठा सर्वतीर्थजलोद्भवा। पर्युपासत तन्देवरूपिणी द्विजसत्तमाः ।। ३०.
एवं स भगवांस्तत्र दीप्यमानः सुरर्षिभिः। देवैश्च सुमहाबागैर्महादेवो व्यवस्थितः ।। ३०.