ततोऽब्रवीत् सा पितरं देवी क्रोधादमर्षिता। यवीयसीब्यो ज्यायसीं किन्तु पूजामिमां प्रभो। असम्मतामवज्ञाय कृतवानसि गर्हिताम् ।। ३०.
अहं ज्येष्ठा वरिष्ठा हि न त्वसत् कर्त्तुमर्हसि। एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ।। ३०.
त्वन्तु श्रेष्ठ वरिष्ठा च पूज्या बाला सदा मम। तासां ये चैव भर्त्तारस्ते मे बहुमताः सदा ।। ३०.
ब्रह्नमष्ठाश्च तपिष्ठाश्च महायोगाः सुधार्मिकाः। गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ।। ३०.
वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः। भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ।। ३०.
तस्यात्मा स च ते शर्वो भक्ता चासि हि तं सदा। तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ।। ३०.
इत्युवाच तदा दक्षः संप्रमूढेन चेतसा। शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ।। ३०.
तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् । वाङ्मनःकर्मभिर्यस्माददुष्ठां मां विगर्हसे। तस्मात्त्यजाम्यहन्देहमिदन्तात तवात्मजम् ।। ३०.
ततस्तेनावमानेन सती दुःखादमर्षिता। अब्रवीद्वचनं तेवी नमस्कृत्य महेश्वरम् ।। ३०.
यत्राहमुपपत्स्येहं पुनर्देहेन भास्वता। तत्राप्यहमसंमूढा सम्भूता धार्मिकी पुनः। गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धर्मतः ।। ३०.
तत्रैवाथ समासीना युक्तात्मानं समादधे। धारयामास चाग्नेयीं धारणां मनसात्मनः ।। ३०.
तत आग्नेयीसमुत्थेन वायुना समुदीरितः। सर्वाङ्गेभ्यो विनिः सृत्य वह्निर्भस्म चकार ताम् ।। ३०.
तदुपश्रुत्य निधनं सत्या देवोऽथ शूलधृक्। संवादञ्च तयोर्बुद्ध्वा याथातथ्येन शङ्करः। दक्षस्याथ ऋषीणाञ्च चुकोप भगवान् प्रभुः ।। ३०.
यस्मादवमता दक्ष मत्कृते मान सा सती। प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ।। ३०.
तस्माद्वैवस्वतं प्राप्य पुनरेव महर्षयः। उत्पत्स्यन्ते द्वितीये वै मम यज्ञे ह्ययोनिजाः ।। ३०.
हुते वै ब्रह्मणा शुक्ते चाक्षुषस्यान्तरे मनोः। अभिव्याहृत्य च ऋषीन् दक्षमभ्यगमत् पुनः ।। ३०.
भविता चाक्षुषो राजा चाश्रुषस्य समन्वये। प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ।। ३०.
दक्ष इत्येव नाम्ना त्वं मार्षायां जनयिष्यसि। कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषेऽन्तरे ।। ३०.
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते। धर्मार्थकामयुक्तेषु कर्मस्विह पुनः पुनः ।। ३०.
यस्मात् त्वं मत्कृते क्रूरमृषीन् व्याहृतवानसि। तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ।। ३०.
हुत्वाहुतिं ततः क्रूरः अपस्त्यक्ष्यन्ति कर्मसु। इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ।। ३०.
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते। तमहं धारयिष्यामि निदेशात् परमेष्ठिनः ।। ३०.
अस्यां क्षितौ वृता लोकाः सर्वे तिष्ठन्ति भास्कराः। तानहं धारयामीह सततं न तवाज्ञया ।। ३०.
चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते। नाहं तैः सह भोक्ष्यामि ततो दास्यन्ति ते पृथक्। ततो देवैः स तैः सार्द्धं नेज्यते पृथगिज्यते ।। ३०.
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा। स्वायम्भुवेऽन्तरे त्यक्त्वा उत्पन्नो मानुषेष्विह ।। ३०.
ज्ञात्वा गृहपतिं दक्षं ज्ञानानामीश्वरं प्रभुम्। दक्षो नाम महायज्ञैः सोऽयजद्दैवतैः सह ।। ३०.
अथ देवी सती या तु प्राप्ते वैवस्वतेऽन्तरे। मैनायां तामुमां देवीं जनयामास शैलराट् ।। ३०.
सा तु देवी सती पूर्वं ततः पश्चादुमाऽभवत्। सह व्रता भवस्यैषा न तया मुच्यते भवः। यावदिच्छति संस्थातुं प्रभुर्मन्वन्तरेष्विह ।। ३०.
मारीचं कश्यपं देवी यथाहितिरनुव्रता। साध्यं नारायणं श्रीस्तु मघवन्तं शची यथा ।। ३०.
विष्णुं कीर्ती रुचिः सूर्यं वसिष्ठञ्चाप्यरून्धती। नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कथंचन। आवर्त्तमानकल्पेषु पुनर्जायन्ति तैः सह ।। ३०.