ऋतुत्वमार्त्तवत्वञ्च पितृत्वञ्च प्रकीर्तितम्। इत्येते पितरो ज्ञेया ऋतवश्चार्त्तवाश्च ये ।। ३०.
सर्वभूतानि तेभ्योऽथ ऋतुकालाद्विजज्ञिरे। तस्मादेतेऽपि पितर आर्त्तवा इति नः श्रुतम् ।। ३०.
मन्वन्तरेषु सर्वेषु स्थिताः कालाभिमानिनः। स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंयमात् ।। ३०.
अग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः। जज्ञाते च पितृभ्यस्तु द्वे कन्ये लोकविश्रुते ।। ३०.
मेना च धारिणी चैव याभ्यां विश्वमिदं धृतम्। पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे। त उभे व्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ।। ३०.
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी। धारणी मानसी चैव कन्या बर्हिषदां स्मृता ।। ३०.
मेरोस्तु धारणीं नाम पत्न्यर्थं व्यसृजन् शुभाम्। पितरस्ते बर्हिषदः स्मृता ये सोमपीथिनः ।। ३०.
अग्निष्वात्तास्तु तां मेनां पत्नीं हिमवते ददुः। स्मृतास्ते वै तु दौहित्रास्तद्दौहित्रान् निबोधत ।। ३०.
मेना हिमवतः पत्नी मैनाकं सान्वसूयत। गङ्गा सरिद्वरा चैव पत्नी या लवणो दधेः। मैनाकस्यानुजः क्रौञ्चः क्रौञ्चद्वीपो यतः स्मृतः ।। ३०.
मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम्। मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ।। ३०.
वेला च नियतिश्चैव तृतीया चायतिः पुनः। धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ।। ३०.
स्वायम्भुवेऽन्तरे पूर्वन्तयोर्वै कीर्तिताः प्रजाः। सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ।। ३०.
सावर्णिना च सामुद्री पत्नी प्राचीनबर्हिषः। सवर्णा साथ सामुद्री दशप्राचीनबर्हिषः। सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।। ३०.
तेषां स्वायम्भुवौ दक्षः पुत्रत्वे जज्ञिवान् प्रभुः। त्र्यम्बकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ।। ३०.
एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनः। उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु। चाक्षुषस्यान्वये पूर्वं तन्नः प्रब्रूहि पृच्छताम् ।। ३०.
इत्युक्तः कथयामास सूतो दक्षाश्रितां कथाम्। शांशपायनमामन्त्र्य त्र्यम्बकाच्छापकारणम् ।। ३०.
दक्षस्यासन् सुता ह्यष्टौ कन्या याः कीर्तिता मया। स्वेब्यो गृहेभ्यो ह्यानाय्य ताः पिताभ्यर्च्चयद्गृहे। ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ।। ३०.
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै। नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।। ३०.
अकरोत्स नतिं दक्षे न कदाचिन्महेश्वरः। जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ।। ३०.
ततो ज्ञात्वा सती सर्वाः स्वस्रः प्राप्ताः पितृर्गृहम्। जगाम साप्यनाहूता सती तत् स्वं पितुर्गृहम् ।। ३०.
ततोऽब्रवीत् सा पितरं देवी क्रोधादमर्षिता। यवीयसीब्यो ज्यायसीं किन्तु पूजामिमां प्रभो। असम्मतामवज्ञाय कृतवानसि गर्हिताम् ।। ३०.
अहं ज्येष्ठा वरिष्ठा हि न त्वसत् कर्त्तुमर्हसि। एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ।। ३०.
त्वन्तु श्रेष्ठ वरिष्ठा च पूज्या बाला सदा मम। तासां ये चैव भर्त्तारस्ते मे बहुमताः सदा ।। ३०.
ब्रह्नमष्ठाश्च तपिष्ठाश्च महायोगाः सुधार्मिकाः। गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ।। ३०.
वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः। भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ।। ३०.
तस्यात्मा स च ते शर्वो भक्ता चासि हि तं सदा। तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ।। ३०.
इत्युवाच तदा दक्षः संप्रमूढेन चेतसा। शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ।। ३०.
तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् । वाङ्मनःकर्मभिर्यस्माददुष्ठां मां विगर्हसे। तस्मात्त्यजाम्यहन्देहमिदन्तात तवात्मजम् ।। ३०.
ततस्तेनावमानेन सती दुःखादमर्षिता। अब्रवीद्वचनं तेवी नमस्कृत्य महेश्वरम् ।। ३०.
यत्राहमुपपत्स्येहं पुनर्देहेन भास्वता। तत्राप्यहमसंमूढा सम्भूता धार्मिकी पुनः। गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धर्मतः ।। ३०.