एते विहरणीयास्तु चेतनाचेतनेष्विह। स्थानाभिमानिनो लोके प्रागासन् हव्यवाहनाः ।। २९.
काम्यनैमित्तिकाजस्रेष्वेते कर्मस्ववस्थिताः। पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह। देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः ।। २९.
इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह । तैरेव तु प्रसङ्ख्यातमतीतानागतेष्वपि ।। २९.
मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्। सर्वे तपस्विनो ह्येते सर्वे ह्यवभृथा स्तथा। प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ।। २९.
स्वारोचिषादिषु ज्ञेयाः सावर्ण्यन्तेषु सप्तसु। मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः ।। २९.
वर्त्तन्ते वर्त्तमानैश्च देवैरिह सहाग्नयः। अनागतैः सुरैः सार्द्धं वर्त्तन्तेऽनागताग्नयः ।। २९.
इत्येष निनयोऽग्नीनां मया प्रोक्तो यथातथम्। विस्तरेणानुपूर्व्या च पितॄणां वक्ष्यते ततः ।। २९.
ब्रह्मणः सृजतः पुत्रान् पूर्वे स्वायम्भुवेऽन्तरे। अम्भांसि जज्ञिरे तानि मनुष्यासुरदेवताः ।। ३०.
पितृवन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै। तेषान्निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते ।। ३०.
देवासुरमनुष्याणां दृष्ट्वा देवोऽभ्यभाषत। पितृवन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ।। ३०.
मध्वादयः षडृतवस्तान् पितॄन् परिचक्षते। ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ।। ३०.
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि। एते स्वायम्भुवे पूर्वमुत्पन्ना ह्यन्तरे शुभे ।। ३०.
अग्निष्वात्ताः स्मृता नाम्ना तथा बर्हिषदश्च वै। अयज्वानस्तथा तेषामासन् वै गृहमेधिनः। अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ।। ३०.
यज्वानस्तेषु ये ह्यासन् पितरः सोमपीथिनः। स्मृता बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः। ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयो मतः ।। ३०.
मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ। नभश्चैव नभस्तश्च जीवावेतावुदाहृतौ ।। ३०.
इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ। सहश्चैव सहस्यश्च मन्युमन्तौ तु तौ स्मृतौ। तपश्चैव तपस्यश्च घोरावेतौ तु शैशिरौ ।। ३०.
कालावस्थास्तु षट् तेषाम्मासाख्या वै व्यवस्थिताः। त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ।। ३०.
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः। मासार्द्धमासस्थानेषु स्थानञ्च ऋतवोर्त्तवाः ।। ३०.
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः। अहोरात्रञ्च मासाश्च ऋतवश्चायनानि च ।। ३०.
संवत्सराश्च स्थानानि कालावस्थाभिमानिनः। निमेषाश्च कलाः काष्ठा मुहूर्त्ता वै दिनक्षपाः ।। ३०.
एतेषु स्थानिनो ये तु कालावस्थास्ववस्थिताः। तन्मयत्वात्तदात्मानस्तान् वक्ष्यामि निबोधत ।। ३०.
पर्व्वण्यास्तिथयः सन्ध्याः पक्षा मासार्द्धसंज्ञिताः। द्वावर्द्धमासौ मासस्तु द्वौ मासावृतुरुच्यते ।। ३०.
ऋतुत्रयं चायनं द्वे अयने दक्षिणोत्तरे । संवत्सरः सुमेकस्तु स्थानान्येतानि स्थानिनाम् ।। ३०.
ऋतवः सुमेकपुत्रा विज्ञेया ह्यष्टधा तु षट्। ऋतुपुत्राः स्मृताः पञ्च प्रजास्त्वार्त्तवलक्षणाः ।। ३०.
यस्माच्चैवार्त्तवेयास्तु जायन्ते स्थाणुजङ्गमाः। आर्त्तवाः पितरश्चैव ऋतवश्च पितामहाः ।। ३०.
सुमेकात्तु प्रसूयन्ते म्रियन्ते च प्रजातयः। तस्मात् स्मृतः प्रजानां वै सुमेकः प्रपितामहः ।। ३०.
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्तिताः। तदाख्यास्तन्मयत्वाच्च तदात्मनश्च ते स्मृताः ।। ३०.
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः। संवत्सरः स्मृतो ह्यग्निः ऋतमित्युच्यते द्वजैः ।। ३०.
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः। मासाः षडृतवो ज्ञेयास्तेषां पञ्चार्त्तवाः सुताः ।। ३०.
द्विपदाञ्चतुष्पदाञ्चैव पक्षिसंसर्पतामपि। स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् ।। ३०.