पुत्रः सोऽग्नेर्मन्युमतो घोरः संवर्त्तकः स्मृतः । पिबन्नपः स वसति समुद्रे वढवामुखः ।। २९.
समुद्र वासिनः पुत्रः सहरक्षो विभाव्यते। सहरक्षसुतः क्षामो गृहाणि स दहेन्नॄणाम् ।। २९.
क्रव्यादोऽग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् । इत्येते पावकस्याग्नेः पुत्रा ह्येवं प्रकीर्तिताः ।। २९.
ततः शुचेस्तु यैः सौरेर्गन्धर्वैरसुरावृतैः। मथितो यस्त्वरण्यां वै सोऽग्निरग्निः समिध्यते ।। २९.
आयुर्नामाथ भगवान् पशौ यस्तु प्रणीयते। आयुषो महिमान् पुत्रः स शावान्नामतः सुतः ।। २९.
पाकयज्ञेष्वभिमानी सोऽग्निस्तु सवनः स्मृतः। पुत्रश्च सवनस्याग्नेरद्भुतः स महायशाः ।। २९.
विविचिस्त्वद्भुतस्यापि पुत्रोऽग्नेः स महान् स्मृतः। प्रायश्चित्तेऽथ भीमानां हुतं भुह्क्ते हविः सदा ।। २९.
विविचेस्तु सुतो ह्यर्को योऽग्निस्तस्य सुतास्त्विमे। अनीकवान् वासृजवांश्च रक्षोहा पितृकृत्तथा। सुरभिर्वसुरत्नादौ प्रविष्टो यश्च रुक्मवान् ।। २९.
शुचेरग्नेः प्रजा वह्नयस्तु चतुर्द्दश। इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु ये ।। २९.
आदिसर्गे ह्यतीता वै यामैः सह सुरोत्तमैः। स्वायम्भु वेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः ।। २९.
एते विहरणीयास्तु चेतनाचेतनेष्विह। स्थानाभिमानिनो लोके प्रागासन् हव्यवाहनाः ।। २९.
काम्यनैमित्तिकाजस्रेष्वेते कर्मस्ववस्थिताः। पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह। देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः ।। २९.
इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह । तैरेव तु प्रसङ्ख्यातमतीतानागतेष्वपि ।। २९.
मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्। सर्वे तपस्विनो ह्येते सर्वे ह्यवभृथा स्तथा। प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ।। २९.
स्वारोचिषादिषु ज्ञेयाः सावर्ण्यन्तेषु सप्तसु। मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः ।। २९.
वर्त्तन्ते वर्त्तमानैश्च देवैरिह सहाग्नयः। अनागतैः सुरैः सार्द्धं वर्त्तन्तेऽनागताग्नयः ।। २९.
इत्येष निनयोऽग्नीनां मया प्रोक्तो यथातथम्। विस्तरेणानुपूर्व्या च पितॄणां वक्ष्यते ततः ।। २९.
ब्रह्मणः सृजतः पुत्रान् पूर्वे स्वायम्भुवेऽन्तरे। अम्भांसि जज्ञिरे तानि मनुष्यासुरदेवताः ।। ३०.
पितृवन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै। तेषान्निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते ।। ३०.
देवासुरमनुष्याणां दृष्ट्वा देवोऽभ्यभाषत। पितृवन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ।। ३०.
मध्वादयः षडृतवस्तान् पितॄन् परिचक्षते। ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ।। ३०.
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि। एते स्वायम्भुवे पूर्वमुत्पन्ना ह्यन्तरे शुभे ।। ३०.
अग्निष्वात्ताः स्मृता नाम्ना तथा बर्हिषदश्च वै। अयज्वानस्तथा तेषामासन् वै गृहमेधिनः। अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ।। ३०.
यज्वानस्तेषु ये ह्यासन् पितरः सोमपीथिनः। स्मृता बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः। ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयो मतः ।। ३०.
मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ। नभश्चैव नभस्तश्च जीवावेतावुदाहृतौ ।। ३०.
इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ। सहश्चैव सहस्यश्च मन्युमन्तौ तु तौ स्मृतौ। तपश्चैव तपस्यश्च घोरावेतौ तु शैशिरौ ।। ३०.
कालावस्थास्तु षट् तेषाम्मासाख्या वै व्यवस्थिताः। त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ।। ३०.
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः। मासार्द्धमासस्थानेषु स्थानञ्च ऋतवोर्त्तवाः ।। ३०.
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः। अहोरात्रञ्च मासाश्च ऋतवश्चायनानि च ।। ३०.
संवत्सराश्च स्थानानि कालावस्थाभिमानिनः। निमेषाश्च कलाः काष्ठा मुहूर्त्ता वै दिनक्षपाः ।। ३०.